पृष्ठम्:मृच्छकटिकम्.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
मृच्छकटिके

अये शस्त्रं मया प्राप्तं स्पन्दते दक्षिणो भुजः ।।
अनुकूलं च सकलं हन्त संरक्षितो ह्यहम् ॥ २४ ॥

 चन्दनकः-अज्जए !

एत्थ मए विष्णविदा पञ्चइदा चंदणं पि सुमरेसि ।।
ण भणामि एस लुद्धो णेहस्स रसेण बोल्लामो ॥ २५ ॥

[ आयें !

अग्र मया विज्ञप्ता प्रत्ययिता चन्दनमपि स्मरसि ।
न भणाम्येष लुब्धः स्नेहस्य रसेन ब्रूमः ।]

 आर्यकः----

चन्दनश्चन्द्रशीलाढ्यो दैवादद्य सुहृन्मम ।।
चन्दनं भोः स्मरिष्यामि सिद्धादेशस्तथा यदि ॥ २६ ॥

 चन्दनकः

अभयं तुह देउ हरो विण्डू बम्हा रवी अ चंदो अ ।
हत्तूण सत्तुवक्खं सुंभणिसुंभे जधा देवी ॥ २७ ॥

[अभयं तव ददातु हरो विष्णुर्ब्रह्मा रविश्च चन्द्रश्च ।
हत्वा शत्रुपक्षं शुम्भ निशुम्भौ यथा देदी । ]

( चेटः प्रवहणेन निष्कान्तः )

 चन्दनकः--(नेपथ्याभिमुखमवलोक्य ) अरे ! णिक्कमंतस्स में पिअ- वअस्सो सबव्विलओ पिट्ठदो ज्जेव अणुलग्गो गदो । भोदु, पधाणदंड-


अये इति ॥२४॥ एत्थ इत्यादि। गाथा । अत्रे मया विज्ञप्ता परिज्ञापिता चन्दनकं व स्मरिष्यसि । न भणम्येष लुब्धः स्नेहस्य वशेन ब्रूमः ॥ २५ ॥ चन्दन इति । तथा यदीत्यादि । राज्यप्राप्तिरूपः ॥ 26 अभअमित्यादि। आर्या । अभयं तव ददातु हरो विष्णुर्ब्रह्मा रविश्च चन्द्रश्च । हत्वा शत्रुपक्षं शुम्भनिशुम्भौ यथा .:1.:/ /६,' ! -

टिप्प०-1 अहं जो स्वामित्येवंविधा सिद्धाज्ञा ।