[ अरे आर्यचारुदतं न जानासि, न वा वसन्तसेनाम् ? । यद्यार्यचारुदत्तं वसन्तसेनां वा न जानासि, तदा गगने ज्योत्स्नासहितं चन्द्रमपि त्वं न जानासि ।।
कस्तं गुणारविन्दं शीलमृगाङ्कं जनो न जानाति । |
वीरकः---अरे चंदणआ ।
जाणामि चारुदत्तं वसंतसेणं अ सुट्ठु जाणामि । पत्ते अ राअकज्जे पिदरं पि अहं ण जाणामि ॥ १५ ॥</poem>}}}}
[अरे चन्दनक ! ।
जानामि चारुदत्तं वसन्तसेनां च सुष्ठु जानामि । |
आर्यकः--( स्वगतम् ) अयं मे पूर्ववैरी, अयं मे पूर्वबन्धुः, यतः
एककार्यनियोगेऽपि ना1नयोस्तुल्यशीलता । |
चन्दनकः—तुमं तंतिलो सेणावई रण्णो पञ्चइदो । एदे धारिदा मए बइल्ला । अवलोएहि । [ त्वं तन्ति2ल्लः सेनापती राज्ञः प्रत्ययितः । एतौ धारितौ मया बलीवर्दौ । अवलोकय ।]
वीरकः-- तुमं पि रण्णो पञ्चइदो बलवई । ता तुमं ज्जैव अवलोएहि । [ त्वमपि राज्ञः प्रत्ययितो बलपतिः । तस्मात्त्वमेवावलोकय ।]
आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥ १४ ॥ जानामीति । गाथा । जानामि चारुदत्तं वसन्तसेनां च सुष्ठु जानामि । प्राप्ते च राजकार्ये पितरमप्यहं न जानामि । प्राप्ते चेति चकारः पुनरर्थे ॥ १५ ॥ एकेति ॥ १६ ॥ दिप-1 चन्दनक-वीरकयोः। 2 चिन्तापरः ।