पृष्ठम्:मृच्छकटिकम्.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
मृच्छकटिके

अप्रमत्ताः स्वेषु स्नेषु गुल्मस्थानेषु भवत । एषोऽय गोपालदारको गुप्तिं भङ्क्त्वा गुप्तिपालकं व्यापाद्य बन्धनं भित्वा परिभ्रष्टोऽपक्रामति, ततिगृह्णीत गृह्णीत ।।

( प्रविश्यापटीपेक्षेण संभ्रान्त एकचरणलग्ननिगडोऽवगुण्ठित आर्यकः परिक्रामति )

 चेटः---(स्वगतम् ) महंते णअलीए शंभमे उप्पण्णे । ता तुलिदं तुलिदं गमिश्शं । [महान्नगर्यां संभ्रम उत्पन्नः । तत्त्वरितं त्वरितं गमिष्यामि ।]

(इति निष्कान्तः )

 आर्यकः--

हित्वाहं नरपतिबन्धनोपदेश
व्यापत्तिव्यसनमहार्णवं म1हान्तम् ।
पादाग्रस्थितनिगडैकपाशकर्षी
प्रभ्रष्टो गज इव बन्धनाद्गमामि ॥ १ ॥

 भोः, अहं खलु सिद्धादेशजनितपरित्रासेन राज्ञा प2लकेन घोषादानीय विशसने गूढागारेबन्धनेन बद्धः । तस्माच्च प्रियसुहृच्छर्विलकप्रसादेन बन्धनात्परिभ्रष्टोऽस्मि । ( अश्रूणि विसृज्य )

भाग्यानि मे यदि तदा मम कोऽपराधो
यद्वन्यनाग इव संयमितोऽस्मि तेन ।
दैवी च सिद्धिरपि लङ्घयितुं न शक्या,
गम्यो नृपो बलवता सह को विरोधः १ ॥२॥


गेण्हध ततो धारयत ॥ हित्वेति । व्यसनं महार्णवम् ! संघाताजन्यत्वेन (१) संबन्धेन ।। १ ॥ भाग्यानीति । गम्यो नृपः । सर्वेषां सेव्यो हि । पाठो०--१ नराणाम्. टिप्य०.1 नराणां राजकर्तृकबन्धनमिषरूपा विशिष्टापत्तिस्ताडनवधादिस्तज्जन्यं

दुःखं हित्वा तीर्त्वेत्यर्थः। 2 पालकेति राज्ञो नाम । घोष आभीग्रामः, विशसने हनने ।