पृष्ठम्:मृच्छकटिकम्.pdf/१५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४२
मृच्छकटिके

पवनचपलवेगः स्थूलघाराशरौघः
स्तनितपटहनादः स्पष्टविद्युत्पताकः ।
हरति करसमूहं खे शशाङ्कस्य मेघो
नृप इव पुरमध्ये मन्दवीर्यस्य शत्रोः ॥ १७ ॥

 वसन्तसेना---एवं एणेदं । ती कधं एसो अवरो ? । [एवं न्विदम् । तत्कथमेषोऽपरः ?]

एतैरेव यदा गजेन्द्रमलिनैराध्मातलम्बोदरै-
र्गर्जद्भिः सतडिद्बलाकशबलैर्मेघैः सशल्यं मनः ।
तत्किं प्रोषितभर्तृवध्यपटहो हा हा हताशो बकः
प्रावृट् प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् ॥ १८॥

 विटः---वसन्तसेने । एवमेतत् । इदमपरं पश्य

बलाका पाण्डुरोष्णीषं विद्युत्क्षिप्तचामरम् ।।
मत्तवारणसारूप्यं कर्तुकाममिवाम्बरम् ॥ १९ ॥

 वसन्तसेना-भाव ! पेक्ख पेक्ख । [ भाव ! पश्य पश्य ।]

एतैरार्द्रतमालपत्रमलिनैरापीतसूर्यं नभो
वल्मीकाः शरताडिता इव गजाः सीदन्ति धाराहताः ।
विद्युत्काञ्चनदीपिकेव रचिता प्रासादसंचारिणी ।
ज्योत्स्ना दुर्बलभर्तृकेव वनिता प्रोत्सार्य मेघैर्हता ॥ २० ॥

 विटः–वसन्तसेने ! पश्य पश्य ।

एते हि विध्युद्गुणबद्धकक्षा गजा इवान्योन्यमभिद्रवन्तः ।
शक्राज्ञया वारिधराः सधारा गां रूप्यरज्जवेव समुद्धरन्ति ॥ २१ ॥


मेघा इति ॥ १६ ॥ अयमपर इति शत्रोः पुनर्मध्य इत्यर्थात् । पवनेति। करसमूह अंशु-राजग्राह्यभागौ ॥ १७ ॥ एतैरिति । 'प्रोषितभर्तृ'शब्दात 'न नित्यः समासान्तः' इति न ‘नद्यृतश्च इति कप् ॥ १८ ॥ बलाकेति ॥ १९ ॥ एतैरिति ॥ २० ॥ एत इति । कक्षा मध्यबन्धनम् । गां भूमिम्


‘ | टिप्प-1 स्तनितं मेघगर्जितम् , पटहो नगारा' इति प्रसिद्धः । अत्रे पूर्णो-

पमालंकारः । 2 बलाका बकपङ्क्तिः स्यात्' इति कोश: । वारणस्यापि कर्णयोश्चामरे

शिरसि विचित्रवस्त्रं च भवति । द्रघिमा नीलिमा चेति गज-गगनयोरुपमा ।