पृष्ठम्:मृच्छकटिकम्.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६९
षष्ठोऽङ्कः

 वीरकः--भड चंदणआ !

अवहरइ कोवि तुरिअं चंदणअ सवामि तुज्ज हिअएण ।
जइ अद्धूरददिणअरे गोवालअदारओ खुडिदो ॥ ११ ॥

[ भट चन्दनक !

अपहरति कोऽपि त्वरितं चन्दनक शपे तव हृदयेन ।
यथार्धोदितदिनकरे गोपालदारकः खुटितः ॥ ]

 चेटः---जाध गोणा ! जाध। [यात गावौ ! यातम् ।।

 चन्दनकः---( दृष्ट्वा ) अरे रे, पेक्ख पेक्ख

ओहारिओ पवहणो वच्चइ मज्झेण राअमग्गस्स ।
एदं दाव विआरह कस्स कहिं पवसिओ पवहणो त्ति ॥ १२

[ अरे रे, पश्य पश्य
अपवारितं प्रवहणं व्रजति मध्येन राजमार्गस्य ।।
एतत्तावद्विचारय कस्य कुत्र प्रोषितं प्रवहणमिति ॥ ]

 वीरकः----( अवलोक्य ) अरे पवहणवाहआ ! मा दाव एवंपवहणं वाहेहि । कस्सकेरकं एदं पवहणं १ को वा इध आरूढो कहिं वावज्जइ ? । [अरे प्रवहणवाहक ! मा तावदेतरप्रवहणं वाहय । कस्यैतत्प्र- वहणम् १ को वा इहारूढः कुत्र वा व्रजति ? ।]

 चेटः--एशे खु पवहणे अज्जचालुदत्ताह केलके । इध अज्जआ वशंतशेणा आळूढा पुप्फकरंडअं जिष्णुज्जाणं कीलिदुं चालुदत्तश्श


(च) हीनः स्त्रीपुत्रैः सूर्यजे दीनचेष्टः । तद्वद्धर्मस्थे वैरकृ ( ह्र ) द्रोगवल्या ( बन्धै) ध (र्ध) मोंस्तु ( प्यु) छिद्येत वैर्थ (श्व ) देवी क्रियाभ्यः (द्यः) ।' इति नवमशनैश्चरफलम् ॥ भट चन्दनकेति संबोधनम् । अवहरइ इत्यादि । गाथा । अव ( प ) हरति कोपि त्वरितं चन्दनक ! शपे तव हृदयेन । यथार्धोदितदिनकरे गोपालदारकः खण्डितः ॥ ११ ॥ ओहारिओ इत्यादि । गाथा । उद्घाटितं प्रवहणं व्रजति मध्येन राजमार्गस्य ।