पृष्ठम्:मृच्छकटिकम्.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६५
षष्ठोऽङ्कः

तत्कुत्र गच्छामि मन्दभाग्यः ? । ( विलोक्य ) इदं कस्यापि साधोर- नावृतपक्षद्वारे गेहम् ।

इदं गृहं भिन्नमदत्तदण्डो विशीर्णसंधिश्च महाकपाटः ।
ध्रुवं कुटुम्बी व्यसनाभिभूतां दशां प्रपन्नो मम तुल्यभाग्यः

तदत्र तावत्प्रविश्य तिष्ठामि ।।

( नेपथ्ये)

जाध गोणा ! जाध । [ यातं गावो,! यातम् ।

 आर्यकः--( आकर्ण्य ) अये, प्रवहणमित एवाभिवर्तते ।

भवेद्रोष्ठीयानं न च विषमशीलैरधिगतं
वधूसंयानं वा तदभिगमनोपस्थितमिदम् ।
बहिर्नेतव्यं वा प्रवरजनयोग्यं विधिवशा-
द्विविक्तत्वाच्छ्न्यं मम खलु भवेदैवविहितम् ॥ ४ ॥

( ततः प्रवहणेन सह प्रविश्य )।

 वर्धमानकष्चेटः----हीमाणहे, आणीदे मए जाणत्थलके । लदणिए ! णिवेदेहि अज्जआए वशंतशेणाए--‘अवस्थिदे शज्जे पवहणे अहिलृहिअ पुप्फकलंडअं जिण्णुज्जाणं गच्छदु अज्जआ' । [आश्चर्यम्, आनीतं मया यानास्तरणम् । रदनिके! निवेदयार्यायै वसन्तसेनायै–अवस्थितं सज्ज प्रवहणमधिरूह्य पुष्पकरण्डकं जीर्णोद्यानं गच्छत्वार्या ।।

 आर्यकः-( आकर्ण्य ) गणिकाप्रवणमिदम् । बहिर्यानं च । भवतु, अधिरोहामि । ( इति स्वैरमुपसर्पति )

 चेटः-(श्रुत्वा ) कधं णेउलशद्दे। तो आअदा खु अज्जआ । अज्जए ! इमे णश्शाकडुआ बइल्ला । ता पिट्ठदो ज्जेव आलृहदु अज्जआ ।


राजेत्यर्थः ॥ २ ॥ इदमिति ॥ ३ ॥ भवेदिति ॥ ४ ॥ सुवृत्तं सुव्य- टिप्प०-1 गोष्ठी समानशीलजनसमूहः । ॥ - - -


--- -


५. ५, ६.vv v ,1-**