पृष्ठम्:मृच्छकटिकम्.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६३
षष्ठोऽङ्कः

 चेटी-एदु एदु अज्जआ । [ एवेत्वार्या ।]

 वसन्तसेना—(परिक्रम्य ) हञ्जे ! वीसम तुमं । [ चेटि ! विश्राम्य त्वम् ।।

चेटी-जं अज्जआ आणवेदि । [यदार्याज्ञापयति । ( इति निष्क्रान्ता)

 वसन्तसेना—( दक्षिणाक्षिस्पन्दं सूचयित्वा, प्रवणमधिरुह्य च ) किं ण्णेदं फुरदि दाहिणं लोअणं ? अधवा चारुदत्तस्स ज्जेव दंसणं अणिमित्तं पमज्जइस्सदि । [ किं न्विदं स्फुरति दक्षिणं लोचनम् ? अथवा चारु- दत्तस्यैव दर्शनमनिमित्तं प्रमार्जयिष्यति ।]

( प्रविश्य )

 स्थावरकचेट----ओशालिदा मए शअडा । ता जाव गच्छामि । ( इति नाट्येनाधिरुह्य चालयित्वा, स्वगतम् ) भालिके पवहणे । अधवा चक्कपलिवट्टिआए पलिश्शंतश्श भालिके पवहणे पडिभाशेदि । भोदु, गमिश्शं । जाध गोणा! जाध । [ अपसारिता मया शकटाः । तद्यावद्गच्छामि । भारवत्प्रवहणम् । अथवा चक्रपरिवर्तनेन परिश्रान्तस्य भारवत्प्रवहणं प्रतिभासते । भवतु, गमिष्यामि । यातं गावौ ! यातम् ।]

(नेपथ्ये )

 अरे रे दोवारिआ ! अप्पमत्ता सएसु सएसु गुम्मट्ठाणेसु होध । एसो अज्ज गोवालदारओ गुत्तिअं भंजिअ गुत्तिवालअं वावादिअ बंधणं मेदिअ परिव्भट्टो अवक्कमदि, तो गेण्हध गेण्हध । [ अरे रे दौवारिकाः !


इति चक्रपरिबृत्तिदानार्थम् । एतेन शकारस्य काकनेत्रमुक्तम् (१)। अतोऽपि च शकारलाघवमुक्तमित्यवधेयम् ॥ भालिके भ ( भा) रवत् । सभारमित्यर्थः । मत्वर्थीयः । गोणा गावः ॥ संकुलानि मानि पदानि मश्वानि (?)। पत्रं प्रवहणादि । गुम्मष्ठाणेसु । लेपो जीमूतद्यस्थाने () । परिव्भट्टो बन्धनभेदापगतः । ता