पृष्ठम्:मृच्छकटिकम्.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
मृच्छकटिके

विहवो । किं दाव गणिआघरो, अहवा कुबेरभवणपरिच्छेदो त्ति । कहिं तुम्हाणं अज्जआ ? 1[ किं वात्र पृच्छयते ? । युष्माकं खलु प्रेमनिर्मलजले मदनसमुद्रे स्तननितम्बजघ नान्येव यानपात्राणि मनोहराणि । एवं वसन्त सेनाया बहुवृत्तान्तमष्टप्रकोष्ठं भवन प्रेक्ष्य यत्सत्यं जानामि, एकस्थमिव त्रिविष्टपं दृष्टम् । प्रशंसितुं नास्ति में वाग्विभवः । किं तावद्गणिकागृहम् , अथवा कुबेरभवनपरिच्छेद इति । कुछ युष्माकमार्या १ ।

 चेटी--अज्ज ! एसा रुक्खवाडिआए चिट्ठदि । ता पविसदु अज्जो । [आर्य ! एषा वृक्षवाटिकायां तिष्ठति । तत्प्रविशत्वार्यः ।।

 विदूषकः----(प्रविश्य, दृष्ट्वा च) ही ही भो, अहो रुखवाडि- आए एस्सिरीअदा । अच्छरीदिकुसुमपत्थारा रोविदाअणेअपादवा, णिरंतरपावतलणिम्मिदा जुवदिजणप्पमाणा पट्टदोला, सुवण्णजू- धिअसेहालिआमालईमल्लिआगोमालिआकुरबआअदिमोत्तअप्पदिकुसु- मेहिं सअं णिवडदेहिं जं सच्चं लहुकरेदि विअ णंदणवणस्स सुस्सिरीअदं । ( अन्यतोऽवलोक्य ) इदो अ उदअंतसूरसमप्पहेहिं कमलरत्तोप्पलेहिं संझाअदि विअ दीहिआ । अवि अ,----

एसो असोअवुच्छो णवणिग्गमकुसुमपल्लवो भादि ।
सुभडो दुख समरमज्झे घणलोहिदपंकवञ्चिक्को ॥ ३१ ॥

भोदु, ता कहिं तुम्हाणे अज्जआ [ आश्चर्य भोः, अहो वृक्षवाटिकायाः सश्रीकता । अच्छरीतिकुसुमप्रस्तारा रोपितानेकपादपाः निरन्तरपादपतलनिर्मिता युवतिजधनप्रमाणा पट्टदोला, सुवर्णयुथिकाशेफालिकामालतीम-


सौहित्यम् ॥ ३० ॥ युष्माकमपि यानपात्राणि वहन्ति ? । उद्वाहकेनार्जितविभवस्यैव पर मियान्विस्तारो भवतीति प्रष्टुरभिप्रायः (१) ।। प्रेमनिर्मलजले मदनसमुद्रे स्तननितम्बजघनान्येव यानपात्राणि ॥ सर्र्तुवकुसुमप्रस्तरा रोपितानेकपादपा निरन्तरपादपतलनिर्मिता युवतिजघनप्रमाण पट्टदोला । लघुकीकरोतीव। नन्दनवनस्य सश्रीकत्वम् । एसो असोज इत्यादि । गाथा । ब्रुच्छो