पृष्ठम्:मृच्छकटिकम्.pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११४
मृच्छकटिके

 वसन्तसेना-—अहो, रमणीअदा अज्ज दिवसस्स । ता हञ्जे ! सादरं बंधुलेण समं पवेसेहि णं । [ अहो, रमणीयताद्य दिवसस्य । तच्चेटि! सादरं बन्धुलेन समं प्रवेशयैनम् ।]

 चेटी–जं अज्जआ आणवेदि । [यदार्याज्ञापयति ।]( इति निष्क्रान्ता)

( [१]विदूषको बन्धुलेन सह प्रविशति )

 विदुषकः-----ही ही भो, तवच्चरणकिलेसविणिज्जिदेण रक्खसराआ रावणो पुप्फकेण विमाणेण गच्छदि । अहं उण बम्हणो अकिदतवच्चरणकिलेसो वि णरणारीजणेण गच्छामि । [आश्चर्यं भोः, तपश्चरणक्लेशविनिर्जितेन राक्षसराजो रावणः पुष्पकेण विमानेन गच्छति । अहं पुनर्बाह्मणोऽकृततपश्चरणक्लेशोऽपि नरनारीजनेन गच्छामि ।]

 चेटी–पेक्खदु अज्जो अम्हकेरकं गेहदुआरं । [प्रेक्षतामार्योऽस्मदीयं गेहद्वारम् ।]

 विदूषकः----( अवलोक्य, सविस्मयम् ) अहो सलिलसित्तमज्जिदकिद-हरिदोवलेवणस्स विविहसुअंधिकुसुमोवहारचित्तलिहिदभूमिभाअस्स गअणतलाअलोअणकोदूहलदूरुण्णामिदसीसस्स दोलाअमाणावलंबिदैरा-


अत्रैवाङ्के पञ्चमप्रकोष्ठके ‘परगृहललिताः' (४।२८) इत्यादि बन्धुललक्षणं करिष्यते । 'ही ही भो' इति विस्मये । तपश्चरणक्लेशविनिर्जितेन स्वाधीनेन । पुष्पकेण विमानविशेषेण । अकृततपश्चरणक्लेशः । नरयुक्ता नारी नरनारी सोद्वाहिका यस्य । पुष्पकमपि सा नरनारी सीतारूपा उद्वाहनीया यस्येदृशम् । शब्दच्छलेन साम्यम् ॥ अहो वसन्तसेनाभवनद्वारस्य सश्रीकता । किंभूतस्य ? । सलिलसिक्तमार्जितकृतहरितोपलेपनस्य । कृतगोमयोपलेपनस्येत्यर्थात् । तथा विविधसुगन्धिकुसुमोपहारचित्रलिखितभूमिभागस्य । गगनतलावलोकनकौतूहलदूरोन्नामितशीर्षस्य । उच्छ्रायप्रकर्षपरमेतत् । दोलायमानावलम्बितैरावणहस्तभ्रमागतमल्ली-


  1. विदुषकोऽयं मैत्रेय एव रत्नावलीं दातुमागत इति ज्ञेयम् ।