पृष्ठम्:मृच्छकटिकम्.pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८
मृच्छकटिके

 वसन्तसेना--हञ्जे ! णाणापुरिससंगेण वेस्साजणो अलीअदक्खिणो भोदि । [चेटि ! नानापुरुषसङ्गेन वेश्याजनोऽलीक1दक्षिणो भवति ।।

 मदनिका - जदो दाव अज्जआए दिट्टी इध अभिरमदि हिअअं च, तस्स कारणं किं पुच्छीअदि ? । [ यतस्तावदार्याया दृष्टिरिहाभिरमते हृदयं च, तस्य कारणं किं पृच्छय2ते ? ।।

 वसन्तसेना-हञ्जे ! सहीजणादो उवहणीअदां रक्खामि । [ चेटि ! सखीजनादु3पहसनीयतां रक्षामि।]

 मदनिका - अज्जए ! एव्वं णेदं । सहीजणचित्ताणुवत्ती अबला- जणो भोदि । [ आयें ! एवं नेदम् । सखीजनचित्तानुवर्त्यबलाजनो भवति ]

 प्रथमा चेटी----( उपसृत्य ) अज्जए ! अत्ता आणवेदि-गहि- दावगुंठणं पक्खदुआरए सज्जं पवहणं । ता गच्च' त्ति । [ आर्ये ! माता- ज्ञापयति–'गृहीता4वगुंण्ठनं पक्षद्वारे सज्जं 5प्रवहणम् । तद्गच्छ' इति ।।

 वसन्तसेना--- हञ्जे ! किं अज्जचारुदत्तो मं णइस्सदि । [चेटि ! किमार्यचारुदत्तो मां नेष्यति ? ।।

 चेटी–अज्जए । जेण पवहणेण सह 6सुवण्णदससाहस्सिओ अलंकारओ अणुप्पेसिदो । [आर्ये ! येन प्रवहणेन सह सुवर्णदशसाहस्रिकोऽलंकारोऽनुप्रेषितः ।]


तस्सेत्यादि । यत्र चक्षुहृदये लग्ने तत्र कारणं किं पर्यालोच्यते ? । अतिप्रियनामासावलं विलम्बेनेत्याशयः ॥ गहिदावरगुंठणं गृहीतावगुण्ठनम् । | टिप्प-1 य एव जनो वेशे प्रतिवसति स एवालीकदाक्षिण्यो भवति । अलीकं मिथ्या दाक्षिण्यमनुरागो यस्य सः। 2 ईदृशि सुन्दरे पुरुषे तावदासक्त अलं विलम्बेनेति भावः । ३ असदृशो नायकोऽनया वृत इत्येवंरूपाम् । 4 अवगुण्ठनं आच्छादनम्, महापटाच्छादितमित्यर्थः। 5 कर्णीरथः प्रवहणम्' इति कोशः । स्त्रीणां स्थितियोग्योऽभितः समाच्छन्नो रथः प्रवहणमित्याशयः। स्पष्टं चेदं दशुमार-

चरिते द्वितीये । 6 सुवर्ण लोके 'मोहर' इति प्रसिद्धम् ।