पृष्ठम्:मृच्छकटिकम्.pdf/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७
तृतीयोऽङ्कः

संधिरिव दृश्यते, चौरमिव पश्यामि, तद्गृह्णातु भवानिदं सुवर्ण भाण्डम् ।]

 शर्विलकः--किं न खल्वयमिह मां प्रविष्ठं ज्ञात्वा दरिद्रोऽस्मीत्युपहसति ? । तर्कि व्यापादयामि उत लधुत्वादुत्त्स्वप्नायते ? । ( दृष्ट्वा ) अये, जर्जरस्नानशाटीनिबद्धं दीपप्रभयोद्दीपितं सत्यमेवैतदलंकरणभाएडम् । भवतु, गृह्णामि । अथवा ने युक्तं तुल्यावस्थं कुलपुत्रजनं पीडयितुम् , तद्गच्छामि ।

 विदुषकः --भो वअस्स ! साविदोसि गोबम्हणकामाए, जइ एदं सुवण्णभडअं ण गेण्हसि । [ भो वयस्य ! शापितोऽसि गोब्राह्मणका[१]म्यया, यद्येतरसुवर्णभाण्डं न गृह्णासि ।]

 शर्विलकः----अनतिक्रमणीया भगवती गोकाम्या ब्राह्मणकाम्या च तद्गगृह्णामि । अथवा ज्वलति प्रदीपः । अस्ति च मया प्रदीपनिर्वाप- णार्थमाग्नेयः कीटो धार्यते । तं तावन्प्रवेशयामि । तस्यायं देशकालः । एष मुक्तो मया कीटो यात्वेवास्य दीपस्योपरि मण्डलैर्विचित्रैविंचरितुम् । एष पक्षद्वयानिलेन निर्वापितो भद्रपीठेन धिक्कृतमन्धकारम् । अथवा मयाप्यस्मद्ब्राह्मणकुलेन धिक्कृतमन्धकारम् । अहं हि चतुर्वेदविदोऽप्रतिग्राहकस्य पुत्रः शर्विलको नाम ब्राह्मणो गणिकामदनिकार्थमकार्यमनुतिष्टामि। इदानीं करोति ब्राह्मणस्य प्रणयम् । ( इति जिघृक्षति ।

 विदूषकः - भो वअस्स ! सीदलो दे अग्गहत्थो। [भो वयस्य ! शीतलस्तेऽग्रहस्तः ।]


कपटसुप्तस्य विषमान्तरालवत्त्वात् ॥ १८ ।। स्फारीभवति । अभिमन्त्रितो बीजविशेषो धनसहितभूतले क्षिप्तो बहलीभवतीति प्रसिद्धिः ॥ लधुत्वा्ञ्चपलत्वात्॥ गोक्राम्येति । कामयतेलिङसामान्ये अचो यति पश्चास्नात्वं विवक्षणीयम् ।


टिप्प०.] 1. गवेच्छया ब्राह्मणेच्छयो चेत्यूह्यम् ।


  1. 1