पृष्ठम्:मृच्छकटिकम्.pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५
तृतीयोऽङ्कः

अनया हि समालब्धं न मां द्रक्ष्यन्ति रक्षिणः ।
शस्त्रं च पतितं गात्रे रुजं नोत्पादयिष्यति ॥ १५ ॥

( तथा करोति ) धिक्कष्टम् । प्रमाणसूत्रं मे विस्मृतम् । ( विचिन्त्य ) आं, इदं यज्ञोपवीतं प्रमाणसूत्रं भविष्यति । यज्ञोपवीतं हि नाम ब्राह्मणस्य महदुपकरणद्रव्यम्, विशेषतोऽस्मद्विधस्य । कुतः,---

एतेन मापयति भितिषु कर्ममार्ग-
मेतेन मोचयति भित्तिषु कर्ममार्ग-
मेतेन मापयति भूषणसंप्रयोगान् ।
उद्धाटको भवति यन्त्रदृढे कपाटे ।
दष्टस्य कीटभुजगैः परिवेष्टनं च ॥ १६॥

मापयित्वा कर्म समारभे । ( तथा कृत्वावलोक्य च ) एकलोष्टावशेषोऽयं संधिः । धिक्कष्टम् , अहिना दष्टोऽस्मि । ( यज्ञोपवीतेनाङ्गुलीं बद्ध्वा विषवेगं नाटयति; चिकित्सां कृत्वा ) स्वस्थोऽस्मि । ( पुनः कर्म कृत्वा दृष्ट्वा च ) अये, ज्वलति प्रदीपः । तथा हि,-

शिखा प्रदीपस्य सुवर्णपिञ्जरा महीतले संधिमुखेन निर्गता ।
विभाति पर्यन्ततमःसमावृता सुवर्णरेखेव कषे निवेशिता ॥ १७॥

( पुनः कर्म कृत्वा ) समाप्तोऽयं संधिः । भवतु, प्रविशामि । अथवा न तावत्प्रविशमि । प्रतिपुरुषं निवेशयामि । ( तथा कृत्वा ) अये, न कश्चित् । नमः कार्तिकेयाय । ( प्रविश्य, दृष्ट्वा च ) अये, पुरु[१]षद्वयं सुप्तम् । भवतु, आत्मरक्षार्थं द्वारमुद्धाटयामि । कथं जीर्णत्वाद्गृहस्य विरौति कपाटम् ? ।। तद्यावत्सलिलमन्वेषयामि । क्व न खलु सलिलं


दयोऽपरगुरवः' इत्याहुः सर्वे । 'कार्तिकेयविशेषणम्” इत्येके । 'ब्रह्मण्याय देवाय इति क्वचित्पाठः ॥ अनयेति ॥१५॥ एतेनेति । कर्मसु संधिरचनासु । भुषण- संप्रयोगानिति कटकादेर्धर्मककीलकसुश्लिष्टसंयोजनाभेदात् ॥ १६ ॥ शिखेति

टिप्प०-१


  1. चारुदत्तचिदूषको.