पृष्ठम्:मृच्छकटिकम्.pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
मृच्छकटिके

 माथुर-अह ण जुत्तं जप्पिदुं । एवं अक्खंतो तुम पअच्छ धुत्तआ ! । अहं पि णाम माथुरु धुत्तु जूदं मित्था आदंसआमि । अण्णस्स वि अहं ण बिभेमि । धुत्ता ! खंडिअवुत्तोसि तुमं । [अथ न युक्तं जल्पितम् । एवमाचक्षणस्त्वं प्रयच्छ धूर्तक ।। अहमपि नाम माथुरो धूर्तो द्यूतं मिथ्या दर्शयामि । अन्यस्मादप्यहं न बिभेमि । धूर्त ! खण्डि[१]तवृत्तोऽसि त्वम् ।]

 दर्दुरकः-अरे, कः खण्डितवृत्तः ? ।।

 माथुरः--तुम हु खंडिअवुत्तो । [ त्वं खलु खण्डितवृत्तः ।]

 दुर्दरकः---पिता ते खण्डितवृत्तः । ( संवाहकस्यापक्रमितुं संज्ञां ददाति )

 माथुरः---गोसाविआपुत्ता ! णं एवं जैव जुदं तुए सेविदं ?। [ वेश्यापुत्र ! नन्वेवमेव चूतं त्वया सेवितम् ?।]

 दर्दुरकः-मयैवं धूतमासेवितम् ।

 माथुरः-~-अले संवाहआ ! पअच्छतं दशसुवण्णं। [ अरे संवा- हक ! प्रयच्छ तद्दशसुवर्णम् ।  संवाहकः----अज्ज दइश्शं, दाव दइश्शं । [ अद्य दास्यामि, तावद्दास्यामि ।।

( माथुरः कर्षति )

 दुर्दरकः-मूर्ख ! प[२]रोक्षे खलीकर्तुं शक्यते, न ममाग्रतः खली- कर्तुम् ॥


धूतको द्यूतं मिथ्या दर्शयामि । अन्यस्सै च नाहं बिमेमि । अहमेवान्यं निर्भयः प्रतारयामि, न तु मामन्य इत्यर्थः । तेन त्वमपि धूर्तेऽसीति भावः ॥ गोसाविआ



  1. प्रतारकः, खण्डिताचारः
  2. ममासन्निधाने भर्त्सयितुम्