पृष्ठम्:मृच्छकटिकम्.pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२
मृच्छकटिके

[ आर्ये ! कृतो निश्चयः,

द्यूतेन तत्कृतं मम यद्विहस्तं जनस्य सर्वस्य ।
इदानीं प्रकटशीर्षों नरेन्द्रमार्गेण विहरिष्यामि ॥]

( नेपथ्ये कलकलः )

 संवाहकः-( आकर्ण्य) अले, किं ण्णेदं ? । ( आकाशे ) किं

 भणाध----‘एशे खु वशंतशेणआए खुंटमोडके णाम दुट्टहत्थी विअलेदि’ त्ति ? । अहो, अज्जाआए गंधगअं पेक्खिश्शं गदुअ । अहवा किं मम एदिणा, ? । जधाववशिदं अणुचिट्ठिश्शं । [ अरे, किं न्विदम् ? । किं भणत-- 'एष खलु वसन्तसेनायाः खुण्टमोडको नाम दुष्टहस्ती विचरति' इति ? । अहो, आर्याया गन्धगजं प्रेक्षिष्ये गत्वा । अथवा किं ममैतेन ? । यथाव्यवसितमनुष्ठास्यामि । ] इति निष्क्रान्ता )।

( ततः प्रविशत्यपटीक्षेपेण प्रहृष्टो विकटोज्वलवेषः कर्णपूरकः )

 कर्णपूरकः--कहिं कहिं अज्जाआ ? । [ कुत्र कुत्रार्या ? । ]

 चेटी-दुम्मणुस्स किं ते उव्वेअकालणं, जं अग्गदो वट्ठिदं अज्जअं ण पेक्खसि । दुर्मनुष्य ! किं त उद्वेगकारणम् ! यदग्रतोऽवस्थितामार्या न प्रेक्षसे । ]

 कर्णपूरकः-( दृष्ट्वा ) अज्जए ! वंदामि । [ आर्ये ! वन्दे ।]''''स्थूलाक्षरैः युक्तः भागः'

 वसन्तसेना---कण्णऊरअ प्ररितुट्टमुहो लक्खीअसि । ता किं ण्णेदं ? । [ कर्णपूरक ! परितुष्टमुखो लक्ष्यसे । तत्किं न्विदम् ? ।]

 कर्णपूरकः----( सविस्मयम् ) अज्जए ! वंचिदासि, जाए अज्ज कण्ण- ऊरअस्स परक्कमो ण दिट्ठो । [ आयें ! वञ्चितासि, ययाद्य कर्णपूरकस्य पराक्रमो न दृष्टः ]


सर्वस्य जनस्य' इति प्राचीनटीका । इदानीं द्यूतदेयदशसुवर्णदेयकाले । प्रकटशीर्षों नरेन्द्रमार्गेण विहरिष्यामि । भयविरहादियाशयः ॥ १७ ॥ विअलेदि विचरति । ’विकलयति' इत्येके । गलुअं गुरुत्वम् । महावैभवशालित्वात् । यथाव्यवसितं