पृष्ठम्:मृच्छकटिकम्.pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४
मृच्छकटिके

ततस्तेन दुष्टहस्तिना करचरणरदनैः फुल्लमलिनीमिव नगरीमुज्जयिनीमगादहमानेन समासादितः परिव्राजकः । तं च परिभ्रष्टदण्डकुण्डिकाभाजनं शीकरैः सिक्स्वा दन्तान्तरे क्षिप्तं प्रेक्ष्य पुनरप्युद्धुष्टं जनेन--‘हा, परिव्राजको व्यापाद्यते' इति ।]

 वसन्तसेना--( ससंभ्रमम् ) अहो पभादो, अहो पमादो । [ अहो प्रमादः, अहो प्रमादः।]

 कर्णपूरकः---अलं संभमेण; सुणादु दाव अज्जआ । तदो विच्छिण्णविसंठुलसिंखलाकलावलं उव्वहंतं दंतंतरपरिग्गहिदं परिव्वाजअं उव्वहंतं तं पेक्खिअ कण्णऊरएण मए, णहि णहि, अज्जआए अण्णपिंडउट्टेण दासेण, वामचलणेण जूदलेक्खअं उग्घुसिअ उग्धुसिअ तुरिदं आवणादो लोहदंडं गेण्हिअ आआरिदो सो दुट्टहत्थी । [अलं संभ्रमेण; शृणोतु तावदार्य । ततो विच्छिन्नविसंष्टुलशृङ्खलाकलापमुद्वहन्तं दन्तान्तरपरिगृहीतं परिव्राजकमुद्वहन्तं तं प्रेक्ष्य कर्णपूरकेण मय।- नहि नहि, आर्यायो अन्नपिण्डपुष्टेन दासेन, वामचरणेन द्यूतलेखकं उद्धुष्योद्धुष्य त्वरित- मापणाल्लोहदण्डं गृहीत्वाकारितः स दुष्टहस्ती ।]

 वसन्तसेना—तदो तदो ? । [ ततस्ततः ? । ]

 कर्णपूरकः---

आहणिऊण सरोसं तं हत्थिं वि्ञ्झसैलसिहराभं ।
मोआविओ मए सो दंतंतरसंठिओ परिव्वाजओ ॥ २० ॥

[ आहत्य सरोषं तं हस्तिनं विन्ध्यशैलशिखराभम् ।।
मोचितो मया स दन्तान्तरसंस्थितः परिव्राजकः ।]


विसंष्टुलशृङ्खलाकलापमिति क्रियाविशेषणम् । अण्णपिंडउट्टेण अन्नपिण्डपुष्टेनाद्यूत- लेखकमुत्प्रार्थ्य । आपणात् क्रयविक्रयस्थानात् । तत्र विक्रयार्थं लोहदण्डोऽप्यस्ति । आहणिऊणेत्यादि । गाथा । स परिव्राजकः ॥ ३० ।। पल्हत्था पर्यस्ता ।


टिप्प० -- 1 अयं " म्बा" कारो ह्रस्वः पठनीयः