पृष्ठम्:मृच्छकटिकम्.pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९
द्वितीयोऽङ्कः

कृतोऽस्मि । चारित्र्यावशेषे च तस्मिन्द्यूतोपजीव्यसि संवृत्तः । ततो भाग- धेयधिषमतया दशसुवर्ण द्यूते हारितम् ।]  माथुरः-उच्छादिदो म्हि, मुसिदो म्हि । [उत्सादितोऽस्मि, मुषितोऽस्मि ।।

 संवाहकः-एदे दे शहिअजूदिअलों मं अणुशंधअति । शंपदं शुणिअ अज्जअ पमाणं । [एतौ तौ सभिकद्यूतकरौ मामनु- संधत्तः । सांप्रतं श्रुत्वार्या प्रमाणम् ।]

 वसन्तसेना–मदणिए ! वासपादवविसंठुलदाए पक्खिणो इदो तदो वि अहिंडंति । हल्ले ! ता गच्छ । एदाणं सहिअजूदिअराणं, अअं अज्जो ज्जेव पडिवादे त्ति, इमं हत्याभरणमअं तुमं देहि। मदनिके ! वासपादपविसंष्टुलतया पक्षिण इतस्ततोऽप्याहिण्डन्ते । चेटि ! तद्गच्छ । एतयोः सभिकधूतकरयोः, अयमार्य एवं प्रतिपादयतीति, इदं हस्ताभरणं त्वं देहि । ] ( इति हस्तात्कटकमाकृष्य चेट्याः प्रयच्छति )

 चेटी---( गृहीत्वा ) जं अज्ज़आ आणवेदि । [ यदार्याज्ञापयति । ] ( इति निष्कान्ता )

 माथुरः--उच्छादिदो म्हि, मुसिदो म्हि । [ उत्सादितोऽस्मि, मुषितोऽसि । ]

 चेटी-जधा एदे उद्धं पेक्खंति, दीहं णीससंति, विसूरअंति अहिलहंति अ दुआरणिहिदलोअणा, तधा तक्केमि, एदे दे सहिअजूदिअरा हुविस्संति।( उपगम्य ) अज्ज ! वंदामि । [ यथैतावूर्ध्वं प्रेक्षेते, दीर्ध निश्वसतः विचारयत अभिलपतश्च द्वारनिहितलोचनौ, तथा तर्कयामि, एतौ तौ सभिकद्यूतकरौ भविष्यतः। आर्य!वन्दे।]


पविसंष्टुलतया पक्षिणो भ्राम्यन्ति । दिनान्ते भूतप्राय इत्यर्थः (?)। आर्यः संवा- ह्कः ॥ अहिर्णेति अभिनीयन्ते । दुवारमूले द्वारमूले ॥ सुहवा सुभगा ॥