विदूषकः– ( जनान्तिकम् ) ही, ताओ खु अम्हाणं पदीविआओ अवमाणिदनिद्धणकामुआ विअ गणिआ णिस्सिणेहाओ दाणिं संवुत्ता । [ आश्चर्यम्, ताः खल्वस्माकं प्रदीपिका अपमानितनिर्धनकामुका इव गणिका निःस्नेहा इदानीं संवृत्ताः ।]
चारुदत्तः– मैत्रेय ! भवतु, कृतं प्रदीपिकाभिः । पश्य,–
उदयति हि शशाङ्कः कामिनीगण्डपाण्डु |
(सानुरागम् ) भवति वसन्तसेने ! इदं भवत्या गृहम् । प्रविशतु भवती ।
(वसन्तसेना सानुरागमवलोकयन्ती निष्क्रान्ता ) ।
चारुदत्तः– वयस्य ! गता वसन्तसेना, तदेहि । गृहमेव गच्छावः ।
राजमार्गो हि शून्योऽयं रक्षिणः संचरन्ति च । |
( परिक्रम्य ) इदं च सुवर्णभाण्डं रक्षितव्यं त्वया रात्रौ, वर्धमानके- नापि दिवा।
विदूषकः– जधा भवं आणवेदि । [ यथा भवानाज्नापयति । ]
( इति निष्क्रान्तौ )
इति मृच्छकटिकेऽलंकारन्यासो नाम प्रथमोऽङ्कः ।
ही आश्चर्ये । यत एव निर्धनोऽत एवापमानितः । निःस्नेहा निस्तैलाश्च । स्नॆहो- नुरागस्तैलं । च संवुत्ताः संवृत्ताः । भवत्वित्युपसंहारोक्तिः । उदयतीति । यस्य हिमांशोस्तमोवृन्दमध्ये शुभ्रा रश्मयः पतन्ति । यथा प्रभूत जले कर्दमे दुग्धधाराः ॥ ५० ॥ राजमार्ग इति ॥ ५८ ॥
इति महोपाध्यायश्रीपृथ्वीधरकृतौ मृच्छकटिकविवृतौ
न्यासार्पणो नाम प्रथमोऽङ्कः ।