पृष्ठम्:मृच्छकटिकम्.pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९
प्रथमोऽङ्कः

 विदूषकः—हसिस्सामो। [हसिष्यामः।]

 शकारः—कदा?। [कदा?।]

 विदूषकः—पुणो वि रिद्धीए अज्जचारुदत्तस्स । [पुनरपि ऋद्ध्यार्यचारुदत्तस्य।]

 शकारः—अले दुश्टवडुअका| भणेशि मम वअणेण तं दलिद्दचालुदत्तक—’एशा शशुवण्णा शहिलण्णा णवणाडअदंशणुद्विदा शुत्तधालिव्व वशंतशेणिआ णाम गणिआदालिआ कामदेवाअदणुज्जाणादो पहुदि तुमं अणुलत्ता अम्हेहिं बलक्कालाणुणीअमाणा तुह गेहं पविश्टा। ता जइ मम हस्ते शअं ज्जेव्व पट्टाविअ एणं शमप्पेशि, तदो अधिअलणे ववहालं विणा लहुं णिज्जादमाणाह तव मए अणुबद्धा पीदी हुविश्शदि। आदु अणिज्जादमाणाह आमलणंतिके वेले हुविश्शदि। अवि अ पेक्ख पेक्ख,

कश्चालुका गोछडलित्तवेंटा
शाके अ शुक्खे तलिदै हु मंशे।
भत्ते अ हेमंतिअलत्तिशिद्धे।
लीणे अ वेले ण हु होदि पूदी॥५१॥

शोश्तकं भणेशि, लश्तकं भणेशि। तधा भणेशि जधा हग्गे अत्तणके-


सेनानाम्नि गणिकादारिका कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्ताऽस्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा। ततोऽधिकरणे व्यवहारं विना इत्यनेन व्यवहारनाम्नो नवमाङ्कस्य सूचनम्। लघु शीघ्रम्। णिज्जादमाणाह निर्यातयतः। तव मयानुबद्धा प्रीतिर्भविष्यति। अणिज्जादमाणाह अनिर्यातयतः। आमरणान्तिकं वैरं भविष्यति। अपि च प्रेक्षस्व। कश्चालुका इत्यादि। उपजातिच्छन्दसा। कूष्माण्डी गोमयलिप्तवृन्ता शाकं च शुष्कं पलिरं प्रचुरप्रलेहं मांसम्। 'तलिदं स्नेहपक्के देशी' इत्येके। 'भडिदे' इति पाठे भटित्रमित्यर्थः। ‘शूलाकृतं भटित्रं स्यात्' इत्यमरः। भक्तं च हैमन्तिकरात्रिसिद्धं लीणे अ ऋणं च वैरं च न भवति।