पृष्ठम्:मृच्छकटिकम्.pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
मृच्छकटिके

उन्मीलितापि दृष्टिर्निमीलितेवान्धकारेण॥३३॥

अपि च,—

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्विफलतां गता॥३४॥

 शकारः—भावे भावे! अण्णेशामि वशंतशेणिअं। [भाव भाव! अन्विष्यामि वसन्तसेनिकाम्।]

 विटः—काणेलीमातः। अस्ति किंचिच्चिह्नं यदुपलक्षयसि।

 शकारः—भावे भावे! किं विअ? [भाव भाव! किमिव?।]

 विटः—भूषणशब्दं सौरभ्यानुविद्धं माल्यगन्धं वा।

 शकारः—शुणामि मल्लगंधं, अंधआलपुलिदाए उण णाशिआए ण शुव्वत्तं पेक्खामि भूशणशद्दं। [शृणोमि माल्यगन्धम्, अन्धकारपूरितया पुनर्नासिकया न सुव्यक्तं पश्यामि भूषणशब्दम्।]

 विटः—(जनान्तिकम्) वसन्तसेने।

कामं प्रदोषतिमिरेण न दृश्यसे त्वं
सौदामिनीव जलदोदरसंधिलीना।
त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं
गन्धश्च भीरु! मुखराणि च नूपुराणि॥३५॥

श्रुतं वसन्तसेने!।।

 वसन्तसेना—(स्वगतम्) सुदं गहिदं च। (नाट्येन नूपुराण्युत्सार्य माल्यानि चापनीय किंचित्परिक्रम्य हस्तेन परामृश्य) अम्मो, भित्ति-


महती॥३३॥ लिम्पतीत्यादि।॥३४॥ भाव! अन्विष्यामि वसन्तसेनाम्।। चिह्नं भूषणशब्दादि। उपलक्षणं माल्यगन्धादि। ‘अस्ति किंचिच्चिह्नमुपलक्षयसि’ इति पाठान्तरार्थों व्यक्त एव॥ किं विअ। कीदृशमिवेत्यर्थः॥ शृणोमि माल्यगन्धम्, अन्धकारपूरितया पुनर्नासिकया न सुव्यक्तं पश्यामि भूषणशब्दम्। ‘शुणामि मल्लगंधं’ इत्यादिना लोकविरुद्धोक्तिः॥ काममित्यादि॥३५॥ श्रुतमवधारितम्॥ गृहीतमस्य तात्पर्यमप्याकलितम्। अये मतिः। भित्तिपराम-