पृष्ठम्:मृच्छकटिकम्.pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
मृच्छकटिके

 विटः

एषासि वयसो दर्पात्कुलपुत्रानुसारिणी।
केशेषु कुसुमाढ्येषु सेवितव्येषु कर्षिता॥४०॥

 शकार

एशाशि वाशू शिलशि ग्गहीदा केशेशु बालेशु शिलोलुहेशु।
अक्कोश विक्कोश लवाहिचंडं शंभुं शिवं शंकलमीशलं वा॥४१॥

[एषासि वासु शिरसि गृहीता केशेषु बालेषु शिरोरुहेषु।
आक्रोश विक्रोश लपाधिचण्डं शंभुं शिवं शंकरमीश्वरं वा॥]

 रदनिका—(सभयम्) किं अज्जमिस्सेहिं ववसिदं?। [किमार्यैमिश्रैव्र्यवसितम्?।]

 विटः—काणेलीमातः। अन्य एवैष स्वरसंयोगः।

 शकारः—भावे भावे! जधा दहिभत्तलुद्धाए मज्जालीए शलपलिवत्ते होदि, तधा दाशीए धीए शलपलिवत्ते कडे। [भाव भाव! यथा दधिभक्तलुब्धाया मार्जारिकायाः स्वरपरिवृत्तिर्भवति, तथा दास्याः पुत्र्या स्वरपरिवृत्तिः कृता।]

 विटः—कथं स्वरपरिवर्तः कृतः?। अहो चित्रम्, अथवा किमत्र चित्रम्?।

इयं रङ्गप्रवेशेन कलानां चोपशिक्षया।
वञ्चनापण्डितत्वेन स्वरनैपुण्यमाश्रिता॥४२॥


क्येनेव द्रौपदी॥३९॥ एषेति। कुलपुत्रानुसारिणी चारुदत्तानुरक्ता। सेवितव्येष्वलंकार्येषु॥४०॥ एशाशि वाशु इति। इन्द्रवज्रायाः श्लोकः। एषासि बाला शिरसि केशेषु बालेषु शिरोरुहेषु गृहीता। आक्रोश विकोश लप। अधिचण्डमत्युच्चैः। हिशब्द एव वा। चंडं महादेवं च शंभुं शिवं शंकरमीश्वरं वा॥४१॥ आयमिश्रैर्मान्यैः। व्यवसितमारब्धम्। भाव। यथा दधिभक्तलुब्धायां मार्जारिकायां स्वरपरिवृत्तिर्भवति तथैया स्वरपरिवृत्तिः कृता। 'दहिशर' इति पाठे