पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
28
[१ अधि. १५ अध्या,
विनयाधिकारिकम्

 “नेति” पिशुनः । मन्त्रिणो हि व्यवहितमर्थे वृत्त मवृत्तं वा पृष्टमनादरेण ब्रुवन्ति प्रकाशयन्ति वा स दोषः । तस्मात्कर्मसु ये येष्वभिप्रेतास्तैस्सह मन्त्रयेत् । तैमन्त्रयमाणो हि मन्त्रबुद्धि गुप्तिं च लभत इति ।
 “न” इति कौटिल्यः । अनवस्था ह्येषा । मन्त्रिभिस्त्रिभि श्चतुर्भिव सह मन्त्रयेत ।
 मन्त्रयमाणो ह्येकेनार्थकृच्छ्रेषु निश्वयं नाधिगच्छेत् । एकश्च मन्त्री यथेष्टमनवग्रहश्चरति ।
 द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यामवगृह्यते । विगृ हीताभ्यां विनाश्यते ।
 त्रिषु[१] चतुर्षु वा नैकान्तं कृछ्रेणोपपद्यते महादोषम् । उपपन्नं[२] तु भवति । ततः परेषु कृछ्रेणार्थनिश्चयो गम्यते । मन्त्रो वा रक्ष्यते ।
 देशकालकार्यवशेन त्वेकेन सह द्वाभ्यामेको वा यथासामथ्र्ये मन्त्रयेत ।
 कर्मणामारम्भोपायः, पुरुषद्रव्यसम्पत्, देशकालविभागः, वि- निपातप्रतीकारः, कार्यसिद्धिरिति पञ्चाङ्गो मन्त्रः ।
 तानेकैकशः पृच्छेत् समस्तांश्च ।।
 हेतुभिश्चैषां मतिप्रविवेकान् विद्यात् । अवाप्तार्थः कालं नातिक्रामयेत् ।


  1. तत्त्रिषु.
  2. दोष उपपन्नस्तु