पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२० प्रक.
25
पारविषयै कृयाकृयपक्षीपग्रह

 परिक्षीणोऽत्यात्तस्वः कदर्यो व्यसन्यत्वाहितव्यवहारश्चेति लुब्धवर्गः ।
 आत्मसम्भावितो मानकामः शत्रुपूजामर्षितो नीचैरुपाहित स्तीक्ष्णस्साहासिको भोगेनासन्तुष्ट इति मानिवर्गः ।  तेषां मुण्डजटिलव्यञ्जनैर्यो यद्भक्तिः कृत्यपक्षीयस्तं तेनोप जापयेत्‌---"यथा मदान्धो हस्ती मतेनाधिष्ठितो यद्यदासा दयति तत्सर्वे प्रमृद्नात्येवमयमशास्त्रचक्षुरन्धो राजा पौरजान- पदवधायाभ्युत्थितः; शक्यमस्य प्रातहस्तिप्रोत्साहनैनापकर्तुम मर्षः[१] क्रियताम्” इति क्रुद्धवर्गमुपजापयेत् ।।
 “यथा लीनस्सर्पो यस्माद्ब्भयं पश्यति तत्र विषमुत्सृजत्ये वमयं राजा जातदोषाशङ्कस्त्वयि पुरा क्रोधविषमुत्सृजत्यन्यत्र गम्यताम्" इति भीतवर्गमुपजापयेत् ।
 यथा श्वगाणिनां धेनुश्वभ्यो दुग्धे न ब्राह्मणेभ्य एवमयं राजा सत्वप्रज्ञावाक्यशक्तिहीनेभ्यो दुग्धे नात्मगुणसम्पन्नेभ्यः । असौ राजा पुरुषविशेषज्ञस्सेव्यतामिति" लुभ्धवर्गमुपजापयेत् ।
 "यथा चण्डालोदपानश्चण्डालानामेवोपभोग्यो नान्येषामेव मयं राजा नीचो नीचानामेवेपभेाग्यो न त्वद्विधानामार्या णाम् । असौ राजा पुरुषविशेषज्ञः तत्र गम्यतामिति" मान- वर्गमुपजापयेत् ।


  1. कर्तुमेध.