पृष्ठम्:मृच्छकटिकम्.pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
प्रथमोऽङ्कः

 विटः—वसन्तसेने! तिष्ठ तिष्ठ,

किं यासि बालकदलीव विकम्पमाना
रक्तांशुकं पवनलोलदशं वहन्ती।
रक्तोत्पलप्रकरकुड्मलमुत्सृजन्ती
टङ्कैर्मनःशिलगुहेव विदार्यमाणा॥ २०

 शकारः—च्यिश्ट वशंतशेणिए! च्यिश्ट,

मम मअणमणंगं मम्मथं वड्ढअंती
णिशि अ शअणके मे णिद्दअं आक्खिवंती।
पशलशि भअभीदा पक्खलंती खलंती
मम वशमणुजादा लावणश्शेव कुंती॥ 21

[तिष्ठ वसन्तसेने! तिष्ठ,—

मम मदनमनङ्गं मन्मथं वर्धयन्ती
निशि च शयनके मम निद्रामाक्षिपन्ती।
प्रसरसि भयभीता प्रस्खलन्ती स्खलन्ती
मम वशमनुयाता रावणस्येव कुन्ती॥]


{{‘गतमृतकृतानां डः' इति डः॥१९॥ किं यासीति। ‘टङ्कः पाषाणदारणः इत्यमरः। विदारणक्षणे हि निर्मला दीप्तिः प्रसरतीति। कुड्मलं कलिका। मनःशिलगुहेति । महाभारते ‘मनःशिल'शब्दोऽपि दृश्यत इति तथा प्रयुक्तः। 'मनःशिला तु कुनदी' इत्यमरः॥२०॥ मम मअणेत्यादि। मालिनीच्छन्दसा श्लोकः। मम मदनमनङ्गं मन्मथं वर्धयन्ती निशि च शयनके मम निद्रामाक्षिपन्ती। प्रसरसि प्रगच्छसि। “प्रखरसि दात्यूहवद्विरौषि' इति केचित्। भयभीता प्रस्खलन्ती स्खलन्ती मम वशमनुयाता रावणस्येव कुन्ती। भयभीतेति। 'भय'शब्दोऽयमपार्थकः। ‘मदनमनङ्गम्' इत्यादि पुनरुक्तम्। 'रावणस्येव कुन्ती” इति हृतोपमम्। तथा चोकम्-‘आगमलिङ्गविहीनं देशकलान्यायविपरीतम्।}}