दुर्गेषु वणिजस्संस्था दुर्गान्ते सिद्धतापसाः ।
कर्षकोदास्थिता राष्ट्रे राष्ट्रान्ते व्रजवासिनः ॥
वने वनचरैः[१] कार्याश्श्रमणाटविकादयः ।
परप्रवृत्तिज्ञानार्था: शीघ्राश्चारपरम्परा: ॥
परस्य चैके [२] बोद्धव्याः तादृशैरेव तादृशाः ।
चारसञ्चारिणस्संस्था गूढाश्चागूढसंज्ञिताः ॥
अकृत्यान् कृत्यपक्षीयैः दर्शितान्कार्यहेतुभिः ।
परापसर्पज्ञानार्थे मुख्यानन्तेषु वासयेत् ।।
इति विनयाधिकारिके गूढपुरुषोत्पत्तौ ।
सञ्चारोत्पत्तिः द्वादशोऽध्यायः.
९ प्रक. स्वविषये कुत्याकृत्यपक्षरक्षणम्
गूढपुरुषप्राणिधिः कृतमहामात्या[३]पसर्प: पौरजानपदानपस
र्पयेत् ।
सत्रिणो द्वन्द्विनस्तीर्थसभाशालापूगजनसमवायेषु विवादं कु
र्यु:-- "सर्वगुणसम्पन्नश्चयं राजा श्रूयते । न चास्य कश्चित्
गुणो दृश्यते यः पौरजानपदान् दण्डकराभ्यां पीडयाति" इति ।
तत्र येऽनुभशंसेयुः तानितरस्तं च प्रतिपेधयेत्---"मात्स्यन्यायभिभूताः प्रजा मनं वैवस्वतं राजानं चक्रिरे । धान्यषड्भागं
पण्यदशभार्ग हिरण्यं चास्य भागधेयं प्रकल्पयामासुः, तेन