पृष्ठम्:मृच्छकटिकम्.pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
प्रथमोऽङ्कः

 सुत्रधारः—पच्चादिट्टो म्हि एदिणा। भोदु, अण्णं बम्हणं उवणिमंतेमि। (इति निष्क्रान्तः) [प्रत्यादिष्टोऽस्म्येतेन। भवतु, अन्यं ब्राह्मणमुपनिमन्त्रयामि।]

इत्यामुखम् ।


(प्रविश्य प्रावारहस्तः)

 मैत्रेयः—('अण्णं बम्हणं' इति पूर्वोक्तं पठित्वा) अधवा, मए वि मित्तेएण परस्स आमंतणआइं पक्खिदव्वाइं। हा अवत्थे! तुलीअसि। जो णाम अहं तत्थभवदो चारुदत्तस्स रिद्धीए अहोरत्तं पअत्तसिद्धेहिं उग्गारसुरहिगंधेहिं मोदएहिं ज्जेव्व आसिदो अब्भंतरचदुस्सालअदुए उबविट्टो मल्लक्कसदपरिवुदो चित्तअरो विअ अंगुलीहिं छिविअ छिविअ अवणेमि। णअरचत्तस्वुसहो विअ रोमंथाअमाणो चिट्ठामि, सो दाणिं अहं तस्स दलिद्ददाए जहिं तहिं चरिअ गेहपारावदो विअ आवासणिमित्तं इध आअच्छामि। एसो अज्जचारुदत्तस्स पिअवअस्सेण जुण्णवुड्ढेण जादीकुसुमवासिदो पावारओ अणुप्पेसिदो सिद्धीकिददेवकजस्स अज्जचारुदत्तस्स उवणेदव्वो त्ति। ता जाव अज्जचारुदत्तं


संलाप यत्र कुर्वते। नटी विदूषको वापि पारिपार्श्वक एव वा॥ आमुखं नाम तस्यैव सैव प्रस्तावना मता॥' प्रावारः प्रच्छदपटः। अथवा मयापि मैत्रेयेण परस्य। आमंतणाई आमन्त्रणकानि । पच्छिदवाइं समीहितव्यानि। यो नामाहं तत्रभवतश्चारुदत्तस्य समृद्ध्याहोरात्रं प्रयत्नसिद्धैरुद्गारसुरभिगन्धिभिर्मोदकैरेवाशितस्तृप्तः। मल्लकशतपरिवृतः। मल्लकः पात्रविशेषः पत्रपुटो वा। 'दोना' इति प्रसिद्ध विदूषकपक्षे। चित्रकरपक्षे वर्णिकापात्रं मल्लकः। अभ्यन्तरचतुःशालकद्वारे उपविष्टः, चित्रकर इव छिविअ छिवि स्पृष्ट्वा स्पृष्ट्वाङ्गुल्यग्रैरपनयामि न भक्षयामि, अत्यन्तं तृप्तत्वादित्यर्थः। चित्रकरोऽप्यङ्गुलीसंस्थितलेखनिकया