विष्णुपुराणम्/चतुर्थांशः/अध्यायः २४

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

श्रीपराशर उवाच ।
योऽयं रिपुंजयो नाम बार्हद्रथोंत्यः तस्यामात्यो मुनिको नाम भविष्यति १ ।
स चैनं स्वामिनं हत्वा स्वुपुत्रं प्रद्योतनामानमभिषेक्ष्यति २ ।
तस्यापि बलाकनामा पुत्रो भविता ३ ।
ततश्च विशाखयूपः ४ ।
तत्पुत्रो जनकः ५ ।
तस्य च नंदिवर्द्धनः ६ ।
ततो नंदी ७ ।
इत्येतेष्टत्रिंशदुत्तरमष्टशतं पंच प्रद्योताः पृथिवीं भोक्ष्यन्ति ८ ।
ततश्च शिशुनाभः ९ ।
तत्पुत्रः काकवर्णो भविता १० ।
तस्य च पुत्रः क्षेमधर्मा ११ ।
तस्यापि क्षतौजाः १२ ।
तत्पुत्रो विधिसारः १३ ।
ततश्चाजातशत्रुः १४ ।
तस्मादर्भकः १५ ।
तस्माच्चोदयनः १६ ।
तस्मादपि नंदिवर्द्धनः १७ ।
ततो महानंदी १८ ।
इत्येते शैशनाभा भूपालास्त्रीणि वर्षशतानि द्विषष्ट्यधिकानि भविष्यंति १९ ।
महानंदिनस्ततश्शूद्रा गर्भोद्भवोतिलुब्धोतिबलो महापद्मनामा नंदः परशुराम इवापरोऽखिलक्षत्रांतकारी भविष्यति २० ।
ततः प्रभृति शूद्रा भूपाला भविष्यंति २१ ।
स चैकच्छत्रामनुल्लंघितशासनो महापद्मः पृथिवीं भोक्ष्यते २२ ।
तस्याप्यष्टौ सुतास्सुमाल्याद्य भवितारः २३ ।
तस्य महापद्मस्यानुपृथिवीं भोक्ष्यंति २४ ।
महापद्मपुत्राश्चैकं वर्षशतमवनीपतयो भविष्यंति २५ ।
ततश्च नवचैतान्नंदान् कौटिल्यो ब्राह्मणस्समुद्धरिष्यति २६ ।
तेषामभावे मौर्व्याः पृथिवीं भोक्ष्यंति २७ ।
कौटिल्य एव चंद्र गुप्तसुत्पन्नं राज्येऽभिषेक्ष्यति २८ ।
तस्यापि पुत्रो बिंदुसारो भविष्यति २९ ।
तस्याप्यशोकवर्द्धनस्ततस्सुयशास्ततश्च दशरथस्ततश्च संयुतस्ततश्शालिशूकस्तस्मात्सोमशर्मा तस्यापि सोमशर्मणश्शतधन्वा ३० ।
तस्यानुबृहद्र थनामा भविता ३१ ।
एवमेते मौर्य्या दश भूपतयो भविष्यंति अब्दशतं सप्तत्रिंशदुत्तरम् ३२ ।
तेषामंते पृथिवीं दश शुंगा भोक्ष्यंति ३३ ।
पुष्यमित्रस्सेनापतिस्स्वामिनं हत्वा राज्यं करिष्यति तस्यात्मजोऽग्निमित्रः ३४ ।
तस्मात्सुज्येष्ठस्ततो वसुमित्रस्तस्मादप्युदंकस्ततः पुलिंदकस्ततो घोषवसुस्तस्मादपि वज्रमित्रस्ततो भागवतः ३५ ।
तस्माद्देवभूतिः ३६ ।
इत्येते शुंगा द्वादशोत्तरं वर्षशतं पृथिवीं भोक्ष्यंति ३७ ।
ततः कण्वानेषाभूर्यास्यति ३८ ।
देवभूतिं तु शुंगराजानं व्यसनिनं तस्यैवामात्यः कण्वो वसुदेवनामा तं निहत्य स्वयमवनीं भोक्ष्यति ३९ ।
तस्य पुत्रो भूमित्रस्तस्यापि नारायणः ४० ।
नारायणात्मजस्सुशर्मा ४१ ।
एते काण्वायनाश्चत्वारः पंचचत्वारिंशद्वर्षाणि भूपतयो भविष्यंति ४२ ।
सुशर्माणं तु काण्वं तद्भूत्यो बलिपुच्छकनामा हत्वांध्रजातीयो वसुधां भोक्ष्यति ४३ ।
ततश्च कृष्णनामा तद्भ्राता पृथिवीपतिर्भविष्यति ४४ ।
तस्यापि पुत्रः शांतकर्णिस्तस्यापि पूर्णोत्संगस्तत्पुत्रश्शातकर्णिस्तस्माच्च लम्बोदरस्तस्माच्च पिलकस्ततो मेघस्वातिस्ततः पटुमान् ४५ ।
ततश्चारिष्टकर्मा ततो हालाहलः ४६ ।
हालाहलात्पललकस्ततः पुलिंदसेनस्ततः सुंदरस्ततश्शातकर्णिस्तश्शिवस्वातिस्ततश्च गोमतिपुत्रस्तत्पुत्रोऽलिमान् ४७ ।
तस्यापि शांतकर्णिस्ततः शिविश्रितस्तश्च शिवस्कंधस्तस्मादपि यज्ञश्रीस्ततो द्वियज्ञस्तस्माच्चंद्र श्रीः ४८ ।
तस्मात्पुलोमापिहि ४९ ।
एवमेवे त्रिंशच्चत्वार्यब्दशतानि षट्पंचाशदधिकानि पृथिवीं भोक्ष्यंति ५० ।
आंध्रभृत्यास्सप्ताभीरप्रभृतयो दशगर्दभिनश्च भूभुजो भविष्यंति ५१ ।
ततष्षोडश भूपतयो भवितारः ५२ ।
ततश्चाष्टौ यवनाश्चतुर्दश तुरुष्कारा मुंडाश्च त्रयोदश एकादश मौना एते वै पृथुवीपतयः पृथिवीं दशवर्षशतानि नवत्यधिकानि भोक्ष्यंति ५३ ।
ततश्च मौना एकादश भूपतयोऽब्दशतानि त्रीणि पृथिवीं भोक्ष्यंति ५४ ।
तेषूत्सन्नेषु कैंकिला यवना भूपतयो भविष्यंत्यमूर्द्धाभिषिक्ताः ५५ ।
तेषामपत्यं विंध्यशक्तिस्ततः पुंरजयस्तस्माद्रा मचंद्र स्तस्माद्धर्मवर्मा ततो वंगस्ततोभून्नंदनस्ततस्सुनंदी तद्भ्राता नंदियशाश्शुक्रः प्रवीर एते वर्षशतं षड्वर्षाणि भूपतयो भविष्यंति ५६ ।
ततस्तत्पुत्रास्त्रयोदशैते बाह्लिकाश्च त्रयः ५७ ।
ततः पुष्पमित्राः पटुमियत्रास्त्रयोदशैकलाश्च सप्तांध्राः ५८ ।
ततश्च कोसलायां तु नव चैव भूपतयो भविष्यंति ५९ ।
नैषधास्तु त एव ६० ।
मगधायां तु विश्वस्फटिकसंज्ञोऽन्यान्वर्णान्करिष्यति ६१ ।
कैवर्त्तबटुपुलिंदब्राह्मणान्राज्ये स्थपयिष्यति ६२ ।
उत्साद्याखिलक्षत्रजातिं नव नागाः पद्मवत्यां नाम पुर्यामनुगंगाप्रयागं गयाद्गुप्तांश्च मागधा भोक्ष्यंति ६३ ।
कोशलांध्रपुंड्रताम्रलिप्तसमतटपुरीं च देवरक्षितो रक्षिता ६४ ।
कलिंगमाहिषमहेंद्र भौमान् गुहा भोक्ष्यंति ६५ ।
नैषधनैमिषककालकोशकाञ्जनपदान्मणिधान्यकवंशा भोक्ष्यंति ६६ ।
त्रैराज्यमुषिकजनपदान्कनकाह्वयचो भोक्ष्यति ६७ ।
सौराष्ट्रावंत्यशूद्रा भीरान्नर्मदामरुभूविषयांश्च व्रात्यद्विजाभीरशूद्रा द्या भोक्ष्यंति ६८ ।
सिंधुतटदाविकोर्वीचंद्र भागाकाश्मीरविषयांश्च व्रात्यम्लेच्छशूद्रा दयो भोक्ष्यंति ६९ ।
एते च तुल्यकालास्सर्वे पृथिव्यां भूभुजो भविष्यंति ७० ।
अल्पप्रसादा बृहत्कोपास्सार्वकालमनृताधर्मरुचयः स्त्रीबालगोवधकर्त्तारः परस्वादानरुचयोल्पसारास्तमिस्रप्राया उदितास्तमितप्राया अल्पायुषो महेच्छा ह्यल्पधर्मा लुब्धाश्च भविष्यन्ति ७१ ।
तैश्च विमिश्रा जनपदास्तच्छीलानुवर्त्तिनो राजाश्रयशुष्मिणो म्लेच्छाचाराश्च विपर्ययेण वर्त्तमानाः प्रजाः क्षपयिष्यंति ७२ ।
ततश्चानुदिनमल्पाल्पह्रासव्यवच्छेदाद्धर्मार्थयोर्जगतस्संक्षयो भविष्यति ७३ ।
ततश्चार्थ एवाभिजनहेतुः ७४ ।
बलमेवाश्षोधर्महेतुः ७५ ।
अभिरुचिरेव दांपत्यसंबंधहेतुः ७६ ।
स्त्रीत्वमेवोपभोगहेतुः ७७ ।
अनृतमेव व्यवहारजयहेतुः ७८ ।
उन्नतांबुतैव पृथिवीहेतु ७९ ।
ब्रह्मसूत्रमेव विप्रत्वहेतुः ८० ।
रत्नधातुतैव श्लाघ्यताहेतुः ८१ ।
लिंगधाराणमेवाश्रमहेतुः ८२ ।
अन्यायमेव वृत्तिहेतुः ८३ ।
दौर्बल्यमेवावृत्तिहेतुः ८४ ।
अभयप्रगल्भोच्चारणमेव पांडित्यहेतुः ८५ ।
अनाढ्यतैव साधुत्वहेतुः ८६ ।
स्नानमेव प्रसाधनहेतुः ८७ ।
दानमेव धर्महेतुः ८८ ।
स्वीकरणमेव विवाहहेतुः ८९ ।
सद्वेषधार्येव पात्रम् ९० ।
दूरायतननोदकमेव तीर्थहेतुः ९१ ।
कपटवेषधारणमेव महत्त्वहेतुः ९२ ।
इत्येवमनेकदोषोत्तरे तु भूमंडले सर्ववर्णेष्वेव योयो बलवान्सस भूपतिर्भविष्यति ९३ ।
एवं चातिलुब्धकराजासहाश्शैलानामंतरद्रो णीः प्रजास्संश्रयिष्यंति ९४ ।
मधुशाकमूलफलपत्रपुष्पाद्याहाराश्च भविष्यंति ९५ ।
तरुवल्कलपर्णचीरप्रावरणाश्चातिबहुप्रजाश्शीतवातातपवर्षसहाश्च भविष्यंति ९६ ।
न च कश्चित्त्रयोविंशतिवर्षाणि जीविष्यति अनवरतं चात्र कलियुगे क्षयमायात्यखिल एवैष जनः ९७ ।
श्रौतस्मार्त्ते च धर्मे विप्लवमत्यंतमुपगते क्षीणप्राये च कलावश्षोजगत्स्रष्टुश्चराचरगुरोरादिमध्यांतरहितस्य ब्रह्ममयस्यात्मरूपिणो भगवतो वासुदेवस्यांशश्शंबलग्रामप्रधानब्राह्मणस्य विष्णुयशसो गृहेष्टगुणर्द्धिसमन्वितः कल्किरूपीजगत्यत्रावतीर्य सकलम्लेच्छदस्युदुष्टाचरणचेतसामश्षोआ!णामपरिच्छिन्नशक्तिमाहा-त्म्यः क्षयं करिष्यति स्वधर्मेषु चाखिलमेव संस्थापयिष्यति ९८ ।
अनंतरं चाश्षोकलेरवसाने निशावसाने विबुद्धानामिव तेषामेव जनपदानाममलस्फटिकदलशुद्धा मतयो भविष्यंति ९९ ।
तेषां च बीजभूतानामश्षोमनुष्याणां परिणतानामपि तत्कालकृतापत्यप्रसूतिर्भविष्यति १०० ।
तानि च तदपत्यानि कृतयुगानुसारीण्येव भविष्यंति १०१ ।
अत्रोच्यते ।
यथा चंद्र श्च सूर्यश्च तथा तिष्यो बृहस्पतिः ।
एकराशौ समेष्यंति तदा भवति वै कृतम् १०२ ।
अतीता वर्त्तमानाश्च तथैवानागताश्च ये ।
एते वंश्षोउ! भूपालाः कथिता मुनिसत्तम १०३ ।
यावत्परीक्षितो जन्म यावन्नंदाभिषेचनम् ।
एतद्वर्षसहस्रं तु ज्ञेयं पंचाशदुत्तरम् १०४ ।
सप्तर्षीणां तु यौ पूर्वौ दृश्येते ह्युदितौ दिवि ।
तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि १०५ ।
तेन सप्तर्षयो युक्तास्तिष्ठंत्यब्दशतं नृणाम् ।
ते तु पारीक्षिते काले मघास्वासन्द्विजोत्तम १०६ ।
तदा प्रवृत्तश्च कलिर्द्वादशाब्दशतात्मकः १०७ ।
यदैव भगवान्विष्णोरंशो यातो दिवं द्विज ।
वसुदेवकुलोद्भूतस्तदैवात्रागतः कलिः १०८ ।
यावत्सपादपद्माभ्यां पस्पर्शेमां वसुंधराम् ।
तावत्पृथ्वीपरिष्वंगे समर्थो नाभवत्कलिः १०९ ।
गते सनातनस्यांशो! विष्णोस्तत्र भुवो दिवम् ।
तत्याज सानुजो राज्यं धर्म पुत्रो युधिष्ठिरः ११० ।
विपरीतानि दृष्ट्वा च निमित्तानि हि पांडवः ।
याते कृष्णे चकाराऽथ सोऽभिषेकं परीक्षितः १११ ।
प्रयास्यंति यदा चैते पूर्वाषाढां महर्षयः ।
तदा नंदात्प्रभृत्येष गतिवृद्धिं गमिष्यति ११२ ।
यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदा हनि ।
प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे ११३ ।
त्रीणि लक्षाणि वर्षाणां द्विज मानुष्यसंख्यया ।
षष्टिश्चैव सहस्राणि भविष्यत्येष वै कलिः ११४ ।
शतानि तानि दिव्यानां सप्त पंच च संख्यया ।
निश्श्षोए!ण गते तस्मिन्भविष्यति पुनः कृतम् ११५ ।
ब्राह्मणाः क्षत्त्रिया वैश्याश्शूद्रा श्च द्विजसत्तम ।
युगेयुगे महात्मानः समतीतास्सहस्रशः ११६ ।
बहुत्वान्नामधेयानां परिसंख्या कुलेकुले ।
पौनरुक्त्याद्धि साम्याच्च न मया परिकीर्त्तिता ११७ ।
देवापिः पौरवो राजा पुरुश्चेक्षाकुवंशजः ।
महायोगबलोपेतौ कलापग्रामसंश्रितौ ११८ ।
कृते युगे त्विहागम्य क्षत्रप्रावर्त्तकौ हि तौ ।
भविष्यतो मनोर्वंशबीजभूतौ व्यवस्थितौ ११९ ।
एतेन क्रमयोगेन मनुपुत्रैर्वसुंधरा ।
कृतत्रेताद्वापराणि युगानि त्रीणि भुज्यते १२० ।
कलौ ते बीजभूता वै केचित्तिष्ठंति वै मुने ।
यथैव देवापिपुरू सांप्रतं समधिष्ठितौ १२१ ।
एष तूद्देशतो वंशस्तवोक्तो भूभुजां मया ।
निखिलो गदितुं शक्यो नैष वर्षशतैरपि १२२ ।
एते चान्ये च भूपाला यैरत्र क्षितिमंडले ।
कृतं ममत्वं मोहांधैर्नित्यं हेयकलेवरे १२३ ।
कथं ममेयमचला मत्पुत्रस्य कथं मही ।
मद्वंशस्येतिचिंतार्त्ता जग्मुरंतमिमे नृपाः १२४ ।
तेभ्यः पूर्वतराश्चान्ये तेभ्यस्तेभ्यस्तथा परे ।
भविष्याश्चैव यास्यंति तेषामन्ये च येऽप्यनु १२५ ।
विलोक्यात्मजयोद्योगं यात्राव्यग्रान्नराधिपान् ।
पुष्पप्रहासैश्शरदि हसंतीव वसुंधरा १२६ ।
मैत्रेय पृथिवीगीताञ्छ्लोकांश्चात्र निबोध मे ।
यानाह धर्मध्वजिने नजकायासितो मुनिः १२७ ।
पृथिव्युवाच ।
कथमेष नरेंद्रा णां मोहो बुद्धिमतामपि ।
येन केन सधर्माणोप्यतिविश्वस्तचेतसः १२८ ।
पूर्वमात्मजयं कृत्वा जेतुमिच्छंति मंत्रिणः ।
ततो भृत्यांश्च पौरांश्च जिगीषंते तथा रिपून् १२९ ।
क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् ।
इत्यासक्तधियो मृत्युं न पश्यंत्यविदूरगम् १३० ।
समुद्रा वरणं याति भूमंडलमथो वशम् ।
कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् १३१ ।
उत्सृज्य पूर्वजा याता यां नादाय गतः पिता ।
तां मामतीव मूढत्वाज्जेतुमिच्छंति पार्थिवाः १३२ ।
मत्कृते पितृपुत्राणां भ्रातॄणां चापि विग्रहः ।
जायतेत्यंतमोहेन ममत्वादृतचेतसाम् १३३ ।
पृथ्वी ममेयं सकला ममैषा मदन्वयस्यापि च शाश्वतीयम् ।
योयो मृतेऽन्यत्र बभूव राजा कुबुद्धिरासीदिति तस्यतस्य १३४ ।
दृष्ट्वा ममत्वादृतचित्तमेकं विहाय मां मृत्युवशं व्रजंतम् ।
तस्यानुयस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवं करोति १३५ ।
पृथ्वी ममैषाऽऽशु परित्यजैनां वदंति ये दूतमुखैस्स्वशत्रून् ।
नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाऽभ्युपैति १३६ ।
श्रीपराशर उवाच।
इत्येते धरणीगीताश्श्लोका मैत्रेय यैश्श्रुताः ।
ममत्वं विलयं याति तपत्यर्के यथा हिमम् १३७ ।
इत्येष कथितः सम्यङ्मनोर्वंशो मया तव ।
यत्र स्थितिप्रवृत्तस्य विष्णोरंशांशका नृपाः १३८ ।
शृणोति य इमं भक्त्या मनोर्वंशमनुक्रमात् ।
तस्य पापमश्षॐ वै प्रणश्यत्यमलात्मनः १३९ ।
धनधान्यर्द्धिमतुलां प्राप्नोत्यव्याहतेंद्रि यः ।
श्रुत्वैवमखिलं वंशं प्रशस्तं शशिसूर्ययोः १४० ।
इक्ष्वाकुजह्नुमांधातृसगराविक्षितान्रघून् ।
ययातिनहुषाद्यांश्च ज्ञात्वा निष्ठामुपागतान् १४१ ।
महाबलान्महावीर्याननन्तधनसंचयान् ।
कृतान्कालेन बलिना कथाश्षोआ!न्नराधिपान् १४२ ।
श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिके तथा ।
द्र व्यादौ वा कृतप्रज्ञो ममत्वं कुरुते नरः १४३ ।
तप्तं तपो यैः पुरुषप्रवीरैरुद्वाहुभिर्वर्षगणाननेकान् ।
इष्ट्वा सुयज्ञैर्बलिनोतिवीर्याः कृतानुकालेन कथावशेषाः १४४ ।
पृथुस्समस्तान्विचचार लोकानव्याहतो यो विजितारिचक्रः ।
स कालवाताभिहतः प्रणष्टः क्षिप्तं यथा शाल्मलितूलमग्नौ १४५ ।
यः कार्त्तवीर्यो बुभुजे समस्तान्द्वीपान्समाक्रम्य हतारिचक्रः ।
कथाप्रसंगेष्वभिधीयमानस्स एव संकल्पविकल्पहेतुः १४६ ।
दशाननाविक्षतराघवाणामैश्वर्यमुद्भासितदिङ्मुखानाम् ।
भस्मापि शिष्टं न कथं क्षणेन भ्रूभंगपातेन धिगंतकस्य १४७ ।
कथाशरीरत्वमवाप यद्वै मांधातृनामा भुवि चक्रवर्त्ती ।
श्रुत्वापि तत्को हि करोति साधुर्ममत्वमान्मन्यपि मंदचेताः १४८ ।
भगीरथाद्यास्सगरं ककुत्स्थो दशननो राघवलक्ष्मणौ च ।
युधिष्ठिराद्याश्च बभूवुरेते सत्यं न मिथ्या क्व नु ते न विद्मः १४९ ।
ये सांप्रतं ये च नृपा भविष्याः प्रोक्ता मया विप्रवरोग्रवीयाः ।
एते तथाऽन्ये च तथाभिधेयाः सर्वे भविष्यंति यथैव पूर्वे १५० ।
एत द्विदित्वा न नरेण कार्यं ममत्वमात्मन्यपि पंडितेन ।
तिष्ठंतु तावत्तनयात्मजायाः क्षेत्रादयो ये च शरीरिणोऽन्ये १५१ ।
इति श्रीविष्णुमाहपुराणे चतुर्थांशो! चतुर्विंशोध्यायः २४।