पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ प्रक.]
19
गूढपुरुषोत्पत्तिः

 वाणिजको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो वैदे [१] हकव्यञ्जनः । स वाणिक्कर्मप्रादेष्टायां भूमाविति-समानं पूर्वेण ।।  मुण्डो जटिलो वा वृत्तिकामस्तापसव्यञ्जनः । स नगरा भ्याशे प्रभूतमुण्ड [२] जटिलान्तेवासी शाकं यवसमुष्टिं वा मास द्विमासान्तरं प्रकाशमश्नीयात्, गूढामष्टमाहारम् । वैदेहकान्तेवा सिनश्चैनं समिद्धयोगैरर्चयेयुः । शिष्याश्चास्यावेदयेयुः-"असौ सिद्धस्सामोधिकः” इति । समेधाशास्तिभिश्चाभिगतानामङ्गविध्यया शिष्यसंज्ञाभिश्च कर्माण्यभिजने$वसितान्यादिशेदल्पलाभ

मग्निदाहं चोरभयं दुष्यवधं तुष्टदानं विदेशप्रवृत्तिज्ञानं "इदमद्य श्वो वा भविष्यतीदं वा राजा करिष्यतीति" ।  तदस्य गूढास्सत्रिणश्च संवादयेयुः ।।  सत्वप्रज्ञावाक्यशासम्पन्नानां राजभाव्य [३] मनुव्याहरेत् [४] । मन्त्रिसंयोगं च । मन्त्री चैषां वृत्तिकर्मभ्यां वियतेत । ये च का रणादाभिक्रुद्धास्तानर्थमानाभ्यां शपयेत् । अकारणकुद्धान् तू ष्णिंदण्डेन राजद्दिष्ठकारिणश्च ।। ।

पूजिताश्चार्थमानाभ्यां राज्ञा राजोपजीविनाम् ।
जानीयुः शौचामित्येताः पञ्च संस्थाः प्रकीर्तिताः ॥

इति विनयाधिकारिके गूढपुरुषोत्पत्तौ
संस्थोत्पत्तिः एकादशोऽध्यायः

  1. वैदेहि.
  2. मुण्डनको.
  3. भाग्य,
  4. रेत.