पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ प्रक.
13
अमात्योत्पात्ति:

 मर्यादां स्थापयेदाचार्यानमात्यान्वा । य एनमपायस्थानेभ्यो वारयेयुः,[१] छायानाळिका[२] प्रतोदेन वा रहसि प्रमाद्यन्तमभितुदेयुः ॥

सहायसाध्यं राजत्वं चक्रमेकं न वर्तते ।
कुर्वीत सचिवांस्तस्मात्तेषां च शृणुयान्मतम् ॥

इति विनयाधिकारिके इन्द्रियजये राजर्षीवृत्तं
सप्तमोऽध्यायः. इन्द्रियजयस्समाप्तः.


४. प्रक. अमात्योत्पत्तिः.


 "सहाध्यायिनोऽमात्यान् कुर्वीत दृष्टशौचसामर्थ्यत्वात्" इति भारद्वाजः । ते ह्यस्य विश्वास्याः भवन्तीति ॥

 नेति विशालाक्षः । सहक्रीडितत्वात् परिभवन्त्येनम् । ये ह्यस्य गुह्यसधर्माणस्तानमात्यान् कुर्वीत---समानशीलव्यसनत्वात्; ते ह्यस्य मर्मज्ञभयान्नापराध्यन्तीति ॥

 "साधारण एष दोष" इति पराशरः--तेषामपि मर्मज्ञभयात्कृताकृतान्यनुवर्तेत ॥

यावद्भ्यो गुह्यमाचष्टे जनेभ्यः पुरुषाधिपः ।
अवशः कर्मणा तेन वश्यो भवति तावताम् ॥

  1. "नृपस्य ते हि सुहृदस्स्त एव गुरवो मता । य एनमुत्पथगत धारयन्त्यनिवारित ॥" इति कामान्दक.
  2. नाळिकेति पाठः. नाळिकेति उपाध्यायनिरपेक्षास्थानुवादः.