पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
6
[१ अधि. १ अध्या.
विनयाधिकारिकम्

सुखग्रहणविज्ञेयं तत्त्वार्थपदनिश्चितम् ।
कौटिल्येन कृतं शास्त्रं विमुक्तग्रन्थविस्तरम् ॥

इति कौटिलीयेऽर्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे
राजवृत्ति: प्रथमोऽध्यायः.


१. प्रक. विद्यासमुद्देशः.


 आन्वीक्ष[१]की त्रयी वार्ता दण्डनीतिश्चेति विद्याः ।

 त्रयी वार्ता दण्डनीतिश्चेति मानवाः--त्रयीविशेषो ह्यान्वीक्षकीति ॥

 वार्ता दण्डनीतिश्चेति बार्हस्पत्याः--संवरणमात्रं हि त्रयी लोकयात्राविद इति ।

 दण्डनीतिरेका विद्येत्यौशनसाः--तस्यां हि सर्वविद्यारम्भाः प्रतिबन्धा[२](द्धा) इति ॥

 चतस्र एव विद्या इति कौटिल्यः । ताभिर्धर्मार्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम् ।

 साङ्ख्यं योगो लोकायतं चेत्यान्वीक्ष[३]की ।

 धर्माधर्मौ त्रय्याम् । अर्थानर्थौ वार्तायाम् । नयान[४]यौ दण्डनीत्यां बलाबले चैतासां हेतुभिरन्वीक्ष[५]माणा लोकस्यो

  1. क्षि.
  2. बद्धा.
  3. क्षि.
  4. नयायन.
  5. क्ष्य.