पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
4
[१ अधि. १ अध्या.
विनयाधिकारिकम्

मित्रहिरण्यभूमिकर्मसन्धयः । पार्ष्णिग्राहचिन्ता । हीनशक्तिपूरणम् । बलवता विगृह्योपरोधहेतवः । दण्डोपनतवृत्तम् । दण्डोपनायिवृत्तम् । सन्धिकर्म । सन्धि[१]मोक्षः । मध्यमचरितम् । उदासीनचरितम् । मण्डलचरितम् ॥ इति षाङ्गुण्यं सप्तममधिकरणम् ॥


 प्रकृतिव्यसनवर्गः । राजराज्ययोर्व्यसनचिन्ता । पुरुषव्यसनवर्गः । पीडनवर्गः । स्तम्भवर्गः । कोशसंगवर्गः । बलव्यसनवर्गः । मित्रव्यसनवर्गः ॥ इति व्यसनाधिकारिकमष्टममधिकरणम् ॥


 शक्तिदेशकालबलाबलज्ञानम् । यात्राकालाः । बलोपादानकालाः । सन्नाहगुणाः । प्रतिबलकर्म । पश्चात्कोपचिन्ता । बाह्याभ्यन्तरप्रकृतिकोप प्रतीकारः । क्षय व्ययलाभविपरिमर्शः । बाह्याभ्यन्तराश्चापदः दूष्यशत्रुसंयुक्ताः अर्थानर्थसंशययुक्ताः । तासामुपायविकल्पजास्सिद्धयः ॥ इत्यभियास्यत्कर्म नवममधिकरणम् ॥


 स्कन्धावारनिवेशः । स्कन्धावारप्रयाणम् । बलव्यसनावस्कन्दकालरक्षणम् । कूटयुद्धविकल्पाः । स्वसैन्योत्साहनम् । स्वबलान्यबलव्यायोगः । युद्धभूमयः । पत्त्यश्वरथस्तिकर्माणि । पक्षकक्षोरस्यानां बलाग्रतो व्यूहविभागः । सारगुल्फब[२]लवि



  1. समाधि.
  2. फल्गुविभाग.