पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
प्रतिज्ञायौगन्धरायणे सव्याख्याने

(भरतवाक्यम् )

भवन्त्वरजसो गावः परचत्र्कं प्रशाम्यत ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ २६ ॥

(निष्क्रान्ताः सर्वे ।)

चतुर्थोऽङ्कः ।

प्रतिज्ञानाटिकावसिता

शुभं भूयात् ।



 वत्सराजस्य सह वासवदत्तया कौशाम्बीप्राप्तेर्महासेनानुमोदितायाः सिद्धया कार्यस्य पञ्चमी फलागमावस्था परिस्फुटा । पञ्चभिराभिरवस्थाभिरुपाधिभिर्मुखप्रतिमुखगर्भावमर्शानेवर्हणाख्याः पञ्च सन्धय इहानुसन्धेयाः !

 यदस्य कार्यस्य कुक्षिगतं कार्यान्तरं -वत्सराजाय वासवदत्ताप्रदानं नाम, तत्तु महोसेनस्य साध्यम्। वत्सराजस्याविधेयस्य सतो विधेयत्वापादनार्थेछलयित्वप्रग्रहणं वासवदत्तावणोपदशाचर्यीकरणं च तस्य साध्यस्य साधनोपायः, वासवदत्तवत्सराजयोर्गान्धर्वविधिना विवाहनिष्पत्तेश्च तत्सिद्धिरिति महासेनकार्यसिद्धिगर्भीकरणात् कामपि विच्छित्तिं यौगन्धरायणकार्यासद्भिरस्यां नाटिकायां नीयत इति वेदितव्यम् ।

 अल्पं नाटकं नाटिका । ग्रन्थपारिमाणतोऽल्पवविवक्षया स्त्रीत्वम् । अत एवात्याः पञ्चसंख्यान्यूनसंख्याङ्कतोपलभ्यते, नाटकस्य पञ्चवराङ्कत्वनियमात् । आह च रसार्णवसुधाकर: —“नाटिका त्वनयोर्मेदो न पृथग् रूपकं भवेत् । प्रख्यातं वृपतेर्वृ नाटकादाहृतं यतः । बुद्धिकविपतवस्त्रुत्वं तथा प्रकरणादपि ।" इति ।

 अस्यां रसस्तु भेदवीरः, भेदोपायविषयस्योत्साहस्य यौगन्धरायणगतस्थ फलवतः सर्वत: प्रतीतेः । यौगन्धरायणस्य शत्रुभिः सह युद्धवर्णनेन प्रतीयमानोयुद्धोत्साहो भेदोत्साहस्यैव समग्रकार्यभरसहिष्णोः कार्यशेषसाधने किमपि सौकर्यमाकलयतीति युद्धवीरो भेदवीरत्याङ्गमित्यादिकमूहनीयम् ॥

 इत्थं नाटकार्थे पारिसमापिते ‘प्रशस्तिः शुभशसनम् , इत्युक्तलक्षणा निर्वहणसंन्धिचरमाङ्गभूता प्रशस्तिर्वक्त्तव्या । तस्याश्च वक्ष्यमाणाया अनुकार्यवाक्यत्वायोगादाह--भरतेति । भरतस्य नटस्यानुकर्तुर्वाक्यं, वक्ष्यमाणामित्यर्थम् ।