पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
चतुर्थोऽङ्कः ।

 भरतरोहकः– भो यौगन्धरायण ! किं ते भूयः प्रियमुपहरति महासेनः ।

 यौगन्धरायणः-—यदि मे महासेनः प्रसन्नः, किमतः परमिच्छामि ।


 भो इत्यादि । ‘उपहरामीति महासेनः' इति क्वचित् पाठः ॥

 यदित्यादि । अतः परं, सवासवदत्तमत्स्वामिप्रत्याहरणानुमोदनाद् अन्यत् प्रियम् ॥

 इत्थं नाटिकायाः कथावस्तु परिसमापितम् । इह खलु नायकत्व-कार्यानिवाहकत्वाभ्या वत्सराजयौगन्धरायणयोः प्राधान्यं तावन्मङ्गलक्ष्लोकव्याख्यायामुपपादितम् । कार्यं च प्रद्योतच्छळनाद् वत्सराजस्य परित्राणम् । प्रद्योतो हि सम्राडू वत्सराजमभिलषणीयवरगुणसम्पन्नमविधेयमार्मनो विधेयं विधाय जामातृतां नेतुकामः कदाचिद् गजबशीकारव्यसनवयान्नागवनं गतं कपटमीलहस्तिप्रदर्शनेन च्छत्रयित्वावजित्य स्वगृहेऽवरुद्धवान् । तच्च परित्राणं छलनस्थ चिकीर्षितवदशायां वत्सराजनागवनगमनप्रतिषेधेन वा, कृतत्वदशायामवजितवत्सराजप्रत्यानयनेन वा सम्पद्यते । तत्रादिमः परित्राणस्य प्रकारो यौगन्धरायणेन साधयितुं न परितः , यतो नागवनगमनप्रतिषेघसन्देशस्य प्रेषणं प्राप्तकालं कर्तुमुघुञ्जानोऽसौ श्वःकरणीयत्वेन सङ्कल्पितपूर्वं नागवनगमनं मृगयाचापळाद् वत्सराजेन ह्यः कृतमनर्थोपहितं चाज्ञासीत् । द्वितीयस्तु प्रकारो बहुभिश्छझोपायै: साघितः । तदिदं कार्ये प्रति यौगन्धरायणस्य यदौत्सुक्यं सालक ! सज्जस्त्वम्’ (अ. १.) इति सूच्यते, सेयं कार्यस्यारम्भावस्था ।

 वत्सराजच्छलनस्य निष्पन्नत्वे इंसकमुखाद् विज्ञाते वत्सराजप्रत्यानयनोपायसिद्धये यौगन्धरायणस्योन्मत्तवेषधारणेन उज्जयिन्यां छन्नवासः , निजगूढपुरुषाणां स्थानस्थानेषु स्थापनं, प्रद्योतपुरुषाणां दानोपधिना स्वायत्ती करणमित्येवम्प्राय कर्म कायेस्य यत्नावस्था भवति ।

 प्रयाणसोकर्येऽतिमहता यत्नेन सुविहितेऽथि वत्सराजं वासवदत्ताकामुकतामासाद्य उज्जयिनीतः प्रयातुमनीहमानं विज्ञाय कार्यस्यापायं शङ्कमनेन यौगन्धरायणेन वास्रवदत्तासहितवत्सराजभयाणानुकूलाचरणप्रतिज्ञया कार्यस्य प्राथप्तिसम्भवोपपादनात् प्राप्त्याशावस्था कार्यस्य प्रकाशिता ।

 वाहनीकर्तव्यभद्रवतीरिचरकरथ्यागेररक्षकवशीकरणदिकर्मणा निरपायफलप्राप्तिनिर्धारणस्य प्रतिपत्तेर्नियताप्तिलक्षणा चतुर्थी, कार्यस्यावस्था द्योतिता ।