पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
चतुर्थोऽङ्कः ।

 भरतरोहकः--वधार्हो वत्सराजश्चेत् किमस्माभिः स सस्कृतः ।

 यौगन्धरायणः—एतदवेक्ष्य खलु यदस्य शरीरं नापहृतम् ।

 भरतरोहकः—-एतदपि सम्भाव्यं मन्यते स्वामी ।

 यौगन्धरायणः--कः संशयः ।

हस्तप्राप्तो हि वो राजा रक्षितस्तेन साधुना ।
नह्यनारुह्य नागेन्द्र वैजयन्ती निपात्यते ॥ २० ॥

 भरतरोहकः--भवतु भवतु । महासेनस्य प्रतिकूलं कृत्वा कौशाम्बीं प्रति का कृता ते बुद्धिः ।

 यौगन्धरायणः-अहो हास्यमभिधानम् ।


 वधार्ह इत्यादि । किं सत्कृत: किमवधेन पूजितः । कुतः शास्त्रज्ञोऽपि सन् अवधमापिवान्ततो वत्सराजस्य सत्कारं न मन्यस इत्यभिप्रायः ॥

 अवधस्य सत्कारत्वमभ्युपगम्याह----- एतदिति । अस्य महासेनस्य । शरीरं नापहृतमिति यत् तत्, एतद् अवेक्ष्य खलु, महासेन कृतं वत्सराजावघसत्करणं गणयित्वैव । एतदनवेक्षणे तु शरीरमपह्टतमभाविष्यादित्यर्थः । महासेनकृतो ह्यवधसत्कारस्तदवधसत्कारेणात्मकृतेन निष्क्रीत एव वत्सराजेनेति तात्पर्यम् ॥

 एतदित्यादि । एतदपि महासेनशरीरापहरणमपि । मन्यत इति प्रश्नकाकुः ॥

 कः संशय इति ।

 हस्तेति । साधुना धार्मिकेण। तेन वत्सराजेन । वः राजा महासेनः । हस्तप्राप्तो हि सन् सुखात्र्कमणयितां गत एव सन् । रक्षितः अवधेनोपेक्षितः । महासेनस्य हस्तप्राप्तत्वाभावे तत्प्रियदुहितृहरणं वत्सराजस्य न साध्यमभविध्यदित्यमुमर्थमवगमयितुं तत्सरूपमप्रस्तुतमर्थमुपक्षिपति –नागेन्द्रं गजराज म् । अनारुह्य अनधःकृत्य । वैजयन्ती पताका, अर्थान्नागेन्द्रसमाश्रया । नहि निपात्यते ॥ २० ॥

 इत्थं वत्सराजस्य सापराधत्वे स्वोद्धविते खण्डिते तत्समर्थनसंरम्भं परित्यज्य यौगन्धरायणं प्रति रुध्यन्नाह–भवत्विति । भवतु भवतु वत्सराजः सापराधो नवेति विचारो दूरेऽस्तु । त्वमेव मुख्योऽपराधी पर्यनुयोक्तव्य इति मत्वा पृच्छति-- महासेनस्येति । महासेनस्य प्रतिकूलं कृत्वा, ते त्वया। कौशाम्बीं प्रति का बुद्धिः कोऽभिसन्धिः कृतः । अक्षतक्षेमः कौशाम्बीं यास्यामीति किं त्वं मन्यस इत्यभिप्रायः

 अहो इत्यादि ।