पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 भरतरोहकः---अहो छलेनागतगजारम्भस्यारत्मसम्भावना ।

 यौगन्धरायणः—किं छलेनेति । तत् पुनरिदनीं युक्तम् ।

या सा मल्लिकसालवृक्षरचिता नागाश्रिता वञ्चना ।
बद्धः सेवितवान् हि नो नरपतिर्बाहूपधानां क्षितिम् ।
राज्ञो वारणनिग्रहे परिचयाद् वीणाश्रिता वञ्चना
पूर्वं प्रस्तुतमेव यामि भवता नैवापराधो मम ॥ १७ ॥

श्रितम् । गुरोः अवजितं, पितुरवजेतारं धृष्टघुम्नम् । अवाजिच्छब्दः क्किबन्तः । द्रौणिमिव दोणसूनुमश्वत्थामानमिव ॥ १६ ॥

 अहो इति । छलेन, आगतगजारम्भस्य आगतः प्राप्तः गजारम्भः गजद्वारक आरम्भः भद्रवस्याख्प्यहस्तिनीद्वारकों वत्सराजहरणोद्यमः येन तस्य । आत्मसस्भावना आत्मविषयः शौर्यबहुमानः । अहो कष्टं । नहिच्छळप्रयोक्तुः शौर्यगर्व उचित इत्यभिप्राय: ।!

 किमिति । छलेनेति किं, ब्रष इति शेषः। भरतरोहकं तदीयच्छळनिर्देशेन पर्यनुयुङ्क्त्ते-–तत् पुनः तत्तु अर्थाद् वक्ष्यमाणरूपं त्वदीयं छलं । युक्तम् उचितं किम् । इह काकुः ।

 तस्पदार्थं विशदयन्नाह--येति । या यत् छलं। स्त्रीत्वं विधेयानुरोधात् । मल्लिकसलवृक्षरचिता मल्लिकावति सालवृक्षे राचिता प्रणीता । नागाश्रिता नीलहस्तिसंबद्धा । सा वञ्चना प्रसिद्धक मरस्वामिवचनैव । तत् छलं किं युक्तमिति पूर्ववाक्येन संबन्धः । अपराधान्तरमाह--बद्ध: त्वद्दुर्नीत्य बन्घं प्राप्त इत्यर्थः । नः नरपतिः वत्सराजः । बाहूपधानां बाहुरेव उपधानम् उपबर्हे यस्यां शय्याभूतायां तां । क्षितिं भूमिं । सेवितवान् अघिशयितवान् हि । राज्ञः वत्सेशस्य । वारणनिग्रहे गजदमने । परिचयात् परिचयं वीणानिमित्तं खमर्थ्यम् असोढ्वा, ल्यब्लोपे कर्मणी’ति पञ्चमी । वीणाश्रिता वञ्चना वीणापहरणलक्षणापक्रिया । कृतेति शेषः । इत्थं बहुभिः प्रकारैर्भवता पूर्वे कृतस्य च्छलस्य प्रतिच्छलमेव मया कृतमित्याह भवता पूर्वे प्रस्तुतमेव प्रक्रान्तमेव, अर्थाच्छ्ळं । यामि प्राप्नोमि अनुकरोमीत्यर्थः । फलितमाह --मम,अपराध:, नैव ॥ १७ ॥