पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
प्रतिज्ञायौगन्धरायणे सव्याख्याने
सुक्त्तै शास्त्रविनिश्चितैर्विरहितं बुद्धयाधिकं वञ्चितं
द्रष्टुं मल्लमषक्रियाविनिहतं व्रीलादिवाधोमुखम् ॥ १३ ॥

( ततः प्रविशति भरतरोहकः ।)

 भरतरोहकः -क्वासौ क्कासौ यौगन्धरायणः। अवसितनिजकार्यं वञ्चनैर्दुर्निरीक्षं कथमिव परिभाषे भर्तुरर्थे विपन्नम् । चिरमवनतकार्यं चापि निर्युक्तमन्त्रं भुजगमिव सरोषं धर्षितं चोच्छिसं च ॥

 भटः -(क) अय्यजोअन्धराअणो अय्यं पडिवाळअन्तो आउहागारे चिट्ठइ।


(क) आर्ययौगन्धरायण आर्यं प्रतिपालयन् आयुधागारे तिष्ठति ।


नीतिच्छझसु । प्रारब्धेषु मदुपक्रान्तेषु सत्सु । तुलितं तुलाधृतं निर्धारितच्छलप्रयोगसामर्थ्यामित्यर्थः । तुल्याधिकारोज्झितं मत्प्रयुक्तच्छलारम्भसमानारम्भराहितं । शास्त्रविनिश्चितैः बार्हस्पत्याद्यर्थशानिर्णीतैः सूक्त्तैः शोभनैरुपदेशैः । विरहितं । बुद्धया, अधिकं वञ्चितं यावदहं तेन च्छलितः ततोऽधिकं मया छलितम् । अपक्रियाविनिहतं मल्लमिव अपक्रियया प्रतिक्रियया विनिहतं प्रतिहतारम्भं, शरमिव । द्रष्टुम् अपक्रियाकर्तारं वीक्षितुं । व्रीलात् लज्जया । अधोमुखं न त्वभिमुखम् भरतरोहकं द्रष्टुमिच्छामि । इह इवशब्दस्य उपमानेन सह पठनीयस्यान्यत्र पाठः सह्यः ।

 ततइत्यादि ।

 केत्यादि ।

 अवसितेति । वञ्चनैः, अवसितनिजकार्यं सिद्धनिजसाध्यम् । अवासितनृपकार्यामिति क्वापि पाठः । अत एव दुर्निरीक्षे त्रीडान्मया दुःखनिरीक्ष्यं । भर्तुरर्थे विपन्नं स्वामिनः कृते विपत्प्राप्तम् । एतेन विपतिरप्यस्य गौरवावहेति सूचितम्। पूर्वावस्थामाह-चिरम्, अवनतकार्ये चापि निर्युक्त्तमन्त्रम् , अवनतं स्वामिव्यसनवशादधागेतम् उच्चैर्गतिहीनं कार्यम् अमात्यकर्म वस्य तं तथाभूतमपि, निर्युक्तमन्त्रं निर्मुक्तः कार्योन्नमनानुकूलतया निश्चित्य प्रयुक्तो मन्त्रो यस्य तं । सरोषं भुजगमिव सर्पमिव। धर्षितं च ग्रहणपरिभूतं च । उच्छूितं च सिद्धसमीहितत्वादुच्चैश्शिरसं च । प्रकृतं यौगन्धरायणं, कथमिव परिभाषे केन प्रकारेण उपालभे । सर्वप्रकारक्ष्लाघनीयचरितोऽसौ नोपलम्भाई इत्याभिप्रायः ॥ १४ ॥

 अय्येत्यादि ।