भटः–(क) अय्य ! अमच्चो आह—आउहागारे चिट्ठदु किळ अय्यो। पुरुसगुत्तो अंअं देस ति।
यौगन्धरायणः- अहो हास्यममिधानम् ।
- अग्निं बद्ध्वा वत्सराजाभिधानं यस्मिन् काले सर्वतो रक्षितव्यम् ।
- अग्निं बद्ध्वा वत्सराजाभिधानं यस्मिन् काले सर्वतो रक्षितव्यम् ।
- तस्मिन् काले सुप्तमासीदमात्यैर्नीते रत्ने भाजने को निरोधः ॥ १२॥
- तस्मिन् काले सुप्तमासीदमात्यैर्नीते रत्ने भाजने को निरोधः ॥ १२॥
(परिक्रम्य)
भट-(ख) इदं आउहागारं । पविसदु अय्यो ।
(प्रविश्य)
भटः--(ग) अमच्चो आह--अवणीअदु बन्धणं त्ति ।
यौगन्धरायणः —-अक्षीणं मां कुरु । व्यक्तं भरतरोहको मां द्रष्टुमिच्छति, अहमपि तावद् भरतरोहकं द्रष्टुमिच्छामि ।
- मद्वाक्यैः परिखद्यमानहृदयं रोषात् प्रमत्ताक्षरैः
- मद्वाक्यैः परिखद्यमानहृदयं रोषात् प्रमत्ताक्षरैः
- प्रारब्धेषु नयच्छलेषु तुलितं तुल्याधिकारोज्झितम् ।
- प्रारब्धेषु नयच्छलेषु तुलितं तुल्याधिकारोज्झितम् ।
(क) आर्य ! अमात्य आह —-आयुधागारे तिष्ठतु किलार्य । पुरुषगुसोऽयं देश इति ।
(ख) इदमायुधागारम् । प्रविशत्वार्यः ।
(ग) अमात्य आह—-अपनीयतां बन्धनमिति ।
अय्येत्यादि । इति शब्दो हेतौ ॥
अहो इत्यादि । अभिधानं मद्रोपनायें यत्नकथनम् ।
अग्नािमित्यादि । बह्वा बन्धनं नीत्वा । वत्सराजाभिधानं वस्सराजात्मकं । सुप्तं न तु जागरितं । यदि जागरितममविष्यत्, सवासवदत्तवत्सराजहरणं नासेत्स्यदित्यर्थः । रत्ने नीते भाजनस्थे रक्षणीये वस्तुनि वरसराजात्मके, नीते हृते सति । भाजने को निरोधः भाजनस्थानीयेमयि विषये कोऽयं रणनिर्बन्धः ॥ १२ ॥
इमित्यदि ॥
अमच्चे इत्यादि ॥
अक्षीणमित्यादि । अक्षीणं विश्रान्सम् । अहमपि तावदित्यादि क्ष्लोकान्वयि । भरतरोहकं विशिनष्टि---मादिति । अहमपि रोषात् स्वामिच्छलननिमित्तात् कोपात् । प्रमत्ताक्षरैः उद्धतैः । मद्वाक्यैः परिखिद्यमानहृदयं, नयच्छलेषु