पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 भटः- (क) पुष्फबन्धिआए भद्दवदीए खुरप्पमाळाए किं कय्यं । सिग्घं भद्दवदिं पवेसेहि ।

 गात्रसेवक-(ख) पविसदु पविसदु भद्दवदी । अंघो मए भइदीए घण्टा आढत्ता ।

 भटः~(ग) उदए कीळिदुकाभाए भद्दवदीए घण्टाए किं कय्यं । सिग्धं भद्दवदिं पवेसेहि ।

 गात्रसेवकः -(घ) पत्रिसदु पविसदु भद्दवदी । अंघो मए भइवदीए कासिअं आढत्तं ।

 भट-(ङ) कसिएण किं कथ्यं । सिग्धं भद्दवदिं पवेसेहि ।

 गात्रसेवकः--(च) पविसदु पविसदु भद्दवदी अंघो ।

 भटः– (छ) किं अघो।


 (क) पुष्पबन्ध्याया भद्रवत्याः क्षुरप्रमालया किं कार्यम् । शीघ्रं भद्रवतीं प्रवेशय ।

 (ख) प्रविशतु प्रविशतु भद्रवती । अङ्घो मया भद्रवत्या घण्टा हिता ।

 (ग) उदके क्रीडितुकामाया भद्रवत्या धण्टया किं कार्यम् । शीघ्रं भद्रवतीं प्रवेशय ।

 (घ) प्रविशतु प्रविशतु भद्रवती । अङ्धो मया भद्रवत्याः कशिका आहिता ।

 (ङ) कशिकया किं कार्यम् । शीठं भद्रवतीं प्रवेशय ।

 (च) प्रविशतु प्रविशतु भद्रवती । अङग्घो ।

 (छ) किम् अङ्घो ।


 पुप्फेत्यादि । पुष्पबन्ध्यायाः पुष्पेण बन्धं श क्यायाः ॥

 पावसदु इत्यादयश्चत्वारः संवादाः । कशिका | कशा प्रतोदः ॥

 पविसदु इत्यादि ॥

 भद्रवत्याधिकरणं परमापराधभूतं वक्तुं ‘अंघो’ इति वाक्यमुपक्रम्य भीरुव वाक्यशेषकथनखाशङ्क इव गात्रसेवके तूष्णीम्भूते तं वाक्यशेषं व्याहारायितुं भटः पृच्छति--किं अघों इति ॥