पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
तृतीयोऽङ्कः

गत्तसेवअं ण पेक्खसि । किं भणासि -एसो गत्तसेवओ कण्डिलशुण्डिगिणीए गेहं पविसिअ सुरं पिबदि त्ति । गच्छदु भावो । (परिक्रम्य) इदं कण्डिळसुण्डिगिणीए गेहं। जाव णं सद्दावेमि । भो गत्तसेवअ ! गत्तसेववअ !।


क्षसे । किं भणसि–एष गात्रसेवकः कण्डिलशौण्डिक्या गेहं प्रविश्य सुरां पिबतीति । गच्छतु भावः । इदं कण्डिलशौण्डिक्या गेहम् । यावदेनं शब्दापयामि । भो गात्रसेवक ! गात्रसेवक !।


वत्सराजो वासवदत्तया सह कौशाम्बीं प्रयातुं तदनुमतेन कमपि दिवसं निर्दिदेश; भद्रवतीं च नलगिर्यभ्यूनबलवेगां स्वायत्तत्वात् प्रयाणे वाहनीकरणीयां निश्चिकाय; तञ्चैतदात्मनोऽध्यवसायरहस्यं वसन्तकद्वारेण यौगन्धरायणं पुरगोपुररक्षिपुरुषानुकूल्यसंविधानदक्षं ग्राहयामासेति । तदिदं सवासवदत्तवत्सराजनिर्गमोक्तिसामर्थ्याद , "यद्येवं नलगिरिग्रहणार्थे विमुक्तश्चेत् , न पुनर्बद्धस्ते स्वामी"" यदग्निसक्षिकं महासेनस्य दुहितरं शिष्यां प्रतिगृह्यदत्तापनयनं कृतम्” इत्येवमदिवक्ष्यमाणभरतरोहकादिवाक्यसामर्थ्याच्च गम्यमित्यतो वासवदत्तावत्सराजयोः प्रयाणदिवसवृत्तमेवेदानीं प्रस्तूयते ।

 आदौ प्रवेशकं रचयितुं भटं प्रवेशयति--तत इत्यादि । भटोऽयं वासवदत्ताया उदकक्रीडास्थानगमनार्थे भद्रवतीं प्रवेशयितव्यां बोधयितुं स्वाध्यक्षनियोगाद् गात्रसेवकं नाम भद्रवतीपरिचारकं प्रातरन्विष्यन् कश्चितू कन्यापुरपुरुषः । गात्रसेवकस्तु भद्रवतीपरिचारकवेषवृत्तिच्छन्नस्वरूपो यौगन्धरायणसुहृत् वत्सराजभक्तः । स यथानिश्चितं प्रयाणं नक्तमेव यथा वत्सराजेन कृतमभवत् तथा भद्रवतीं वासवदचागृहद्वारे नक्तमेव वत्सराजवचनाद् गुप्तं सन्निधाप्य स्वामिकार्यसिद्धिगर्वात् प्रातः पानानन्दमनुभवंस्तत इत आहिण्डते । भटेन कथञ्चिदुपलभ्य ग्राहितार्थश्वसौ धीरं चोद्धतं च खावधीरणं च सोपहासं च किमपि किमपि सत्यासत्योन्मिक्ष्रं भाषमाणः सवासवदत्तवत्सराजरात्रिनिष्क्रमणवार्तायां कैश्चित् क्षणैः सर्वतः प्रसृतायां सद्यो वत्सराजमनुधावितुं संबर्म्थ प्रतिष्ठमानैः प्रद्योतयोधैः सह यौगन्धरायणस्य यथासङ्क्त्रेतनिर्धावितोपसृतसुहृज्जनसहायस्य युद्धे प्रवृत्ते, स्वयमपि विवृतस्वरूपस्तत्सहायत्वं प्रतिपद्यते । सोऽयमर्थः प्रवेशकग्रन्थादवसीयते ॥

 को काळो इत्यादि । कः कालः कियान् समयः । यापित इति शेषः । केन व्यापारेण यापित इत्यपेक्षायां गात्रसेवकान्वेषणेनेत्याह -गात्रसेवकं न प्रेक्षे