पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 उन्मत्तकः-ही ही चन्द्रं गिळदि ळाहू । मुञ्च मुञ्च चन्दं । यदि ण मुञ्चेशि, मुहं दे पाडिअ मुञ्चावइस्सं । एशे एशे दुट्ठअश्शे परिब्मट्टे आअच्छदि । एशे एशे चउप्पहवीहिआअं। जाव णं आकुहिअ बळिं भक्खिस्सं । एशे एशे दाळअभट्टा । मं ताळेह । माखु माखु मं ताळेह । किं भणाशि-अह्मणं किं पि णच्चेहि त्ति । दक्खह दक्खह दाळअभट्टा ! एशे दाळअभट्ट। पुणो वि मे ताळेह इट्ठिआहि। माखु माख ताळेह । तेण हि अहं पि तुह्ने ताळेमि ।

(निष्क्रान्तः )

तृतीयोऽङ्कः।



 ही ही चन्द्रं गिरति राहुः । मुञ्च मुञ्च चन्द्रम् । यदि न मुञ्चसि, मुखं ते पाटयित्वा मोचयिष्यामि। एष एष दुष्टाश्वः परिभ्रष्ट आगच्छति । एष एष चतुष्पथवीथिकायाम्। यावदेनमारुह्य बालिं भक्षयिष्यामि । एते एते दारकभर्तारः! मां ताडयथ । माखलु माखलु मां ताडयत । किं भणथ-अस्म।कं किमपि नृस्येति । पश्यत पश्यत दारकभर्तारः!। एते दारकभर्तारः ! पुनरपि मां ताडयथ यष्टिभिः। माखलु माखलु ताडयत । तेनं ह्यहमपि युष्मान् ताडयामि ।


 सहाययोर्निष्कान्तयोः स्ववेषसदृशं प्राग्वद् व्यवहरति--हीहीति । मुञ्चवइस्सभिस्यन्तस्य बाह्योऽर्थः स्पष्टः । राहुः । प्रद्योतः चन्द्रं वत्सरजं गिरति परिभवति । हे प्रद्योत! वत्सराजं मुञ्च मुञ्च । तं न मुञ्चसि चेत्, त्वां हत्वा तं मोचयिष्यामीत्याभ्यन्तरः ।

 एो इति । एष एष दुष्टाश्चः, परिभ्रष्टः बन्धनप्रच्युतः, आगच्छति । एष एषः चतुष्पथवीथिकायां, सन्निहित इति शेषः । एनं सन्निहितं दुष्टाश्वमेव , आरुह्य, बलिं भिक्षां । भक्षयिष्यामि । इति बाह्योऽर्थः । एष दुष्टः प्रद्योतः छलप्रयोक्क्तृत्वात् सन्मार्गभ्रष्टो मामुद्दिश्य प्रत्यवतिष्ठते । एषोऽहं, चतुष्पथवीथिकायां चतुष्पथवीथिकावत् कञ्चिदपि प्रति स्त्रत्वमपरिणीतवादप्राप्तायाम् अर्थात् तत्कन्यायां वासवदत्तायां विषये । एनं प्रद्योतम् । आरुह्य न्यक्कृत्य वासवदत्ताहरणेन परि-