पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
तृतीयोऽङ्कः

 यौगन्धरायणः-कथमिव ।

 विद्षक— (क) सुणह भवन्तो।

 उभौ-अवहितौ स्वः ।

 विदूषकः-(ख) जा सा काळट्ठभी अदिक्कन्दा, तर्हि तसहोदी वासवदत्ता णाम राअदरिआ धत्तीदुदीआ कण्णआदंसणं णिद्दोसं त्ति करिअ अवणीदकञ्चुआए सिविआए ओघट्टिदपणाळीपस्सुदसळिळविसंमं राअमरणं परिहरिंअ जं तं बन्धणदुबारस्स अग्गंदो भअवदीए जक्खिणीए ट्ठाणं, तस्मि देवकय्यं कर्तुं गआ आसी।

 यौगन्धरायणः- ततस्ततः ।

 विदूषकः-(ग) तदो तत्तभवं तं दिअसं अब्भन्तरबन्धणपरिरक्खयो सिवअं णाम राअदासं अणुमाणिअ बन्धणदुवारे णिक्कन्तो ।


 (क) श्वणुतां भवन्तौ ।

 (ख) या सा कालाष्टभी अतिक्रान्ता, तस्यां तत्रभवती वासवदत्ता नाम राजदारिका धात्रीद्वितीया कन्यकादर्शनं निर्दोषमिति कृत्वापनीतकञ्चुकायां शिबिकायामवघट्टितप्रणाीप्रस्त्रुतसालिलविषमं राजमार्गं परिहृत्य यत्तद् बन्धनद्वारस्याग्रतो भगत्रत्या यक्षिण्याः स्थानं, तस्मिन् देवकार्यं कर्तुं गतासीत् ।

 (ग) ततस्तत्रभवान् तं दिवसमभ्यन्तरबन्धनपरिरक्षकं शिवकं नाम राजदासमनुमान्य बन्धनद्वारे निष्क्रान्तः ।


 कथमिवेत्यादयबयः संवदाः ॥

 जेस्यादि । कालाष्टमी कृष्णाष्टमी काळीभजने विशेषविहिता तिथिः। अपनीतकञ्चुकायां शिबिकायां याप्ययानविशेषे । शिचिकाया अपनीतकञ्चुकत्वोक्त्या तदुपविष्टवासवदत्तारूपवैभवस्य सम्यग्दर्शनसौकर्यमुक्तम् । अवघट्टितप्रणालीप्रश्नतसलिलविषमम् अवघट्टितायाः अवरुद्धायाः प्रणाद्याः जलमार्गात् प्रस्त्रुतैः अमिष्यन्दमानैः सलिलैर्जटेर्विषमं दुर्गमं यक्षिण्याः स्थानम् आलयः। जक्खिणीएइस्यतः प्राग् “अवन्तिसुन्दरीए’ इयाधिकं पठ्यते क्त्रचित् ॥

 तत इत्यादयस्त्रयः संवादाः । अभ्यन्तरबन्घनपरिरक्षकम् अन्तःकरागृहपालकम् ॥