पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
तृतीयोऽङ्कः । ।

(ततः प्रविशत्युन्मत्तकः।)

 उन्मत्तकX -(क) मोदआ ! मोद आ ! हहह ।

 विदूषकः -(ख) भो उम्मत्तअ ! आणेहि म म मोदअमळ्ळअं ।

 उन्मत्तक:--(ग) किं मोदआ । कहिं मोदआ । कश्श मोदआ । कि इमे मोदआ उज्झन्ति, आदु पिणज्झन्ति, उदाहो खञ्जन्ति ।


 (क) मोदकाः! मोदकाः ! हहह ।

 (ख) भो उन्मत्तक । आनय मम मोदकमल्लकम् ।

 (ग) किं मेदकाः। कुत्र मोदकाः । कस्य मोदकाः। किमिमे मोदका उज्झ्यन्ते, अथवा पिनह्यन्ते उताहो खाद्यन्ते ।


दण्डकाष्ठेन स्वन्निर्णयविरोधिना स्वामिप्रतिसन्देशेन । ते, शीर्षे मतम् एकाकिवत्सराजहरणाध्यवसायं । भिनद्मि शिथिळयामि । इत्याभ्यन्तरः ॥

 मोदआ इत्यादि ॥

 भो इति । मे, मोदकमल्ल फम् आनय, मम अपूपविशेषं देहीति बाह्योऽर्थः । मम, प्रियतरम् अर्थान्मन्त्रावसरं , देहीत्याभ्यन्तरः ॥

 किमिति । उन्मत्तसदृशो बायार्थः स्फुटः पक्षान्तरे तु--किं मोदकाः, अज्ञातार्ये किंशब्दः । मोदकाः मन्त्राः । अज्ञाताः , मन्त्राणां पूर्वमेव कुतत्वादिदानीं कः पुनः प्रसङ्गः इति न ज्ञायते इत्यर्थः । कुत्र मोदकाः किं स्वपक्षस्थदोषप्रतीकारविषये उत परपञ्चत्थदोषप्रतीकारविषये मृन्त्राः कर्तव्याः । स्वकृतसंविधानसौष्ठवप्रत्ययात् प्रकारान्तरेण दोषासंम्भवं निश्चित्य, तत्र कश्चिदेव प्रकारं संभाव्यं हृदि निधाय पृच्छति-मोदकाः अस्मत्स्वामी । बहुमाने बहुत्वम् । कस्य किंसंबन्धी किमस्माकं वश्यः उत परस्य वश्यः । परवध्यत्वपक्षे आह--इमे मोदकाः स्वामिप्रत्यानयनाथें धार्यमाण एते वेषाः । किम् उज्झ्यन्ते फळनैराश्यात् किं त्यज्यन्ताम् ; अथवा किं पिनह्यन्ते यावत्फलोदयं किं वध्यन्ताम् । फलप्रत्याशबीजं किञ्चिदस्ति किभित्यभिप्रायः । उताहो किं खाद्यन्तां किं हन्यन्ताम्, अर्थात् स्वामिमोचनवामचेष्टिताः शत्रवः । इह पिनह्यन्त इति ‘णह बन्धने’ इति दैवादिको धातुः अप्युपसृष्टः । ‘वष्टि भागुरिरल्लोपम् इत्याकारलोपः ॥