पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
प्रतिज्ञायौगन्धरायणे सव्याख्याने

(नेपथ्ये)

 (क) मोदआ ! मोदआ । हहह ।

 विदूषकः--(ख) अविहा एसो उम्मत्तओ मम मोदअमळ्ळअं गह्णिअ हसमाणो फेणायमाणमळिणवरिसारच्छोदअं विअ इदो एव्वाहावइ । चिट्ठ चिट्ठ उम्मत्तअ । चिट्ठ । इमिणा दण्डअट्ठेण सीसं दे भिन्दामि।


 (क) मोदकाः ! मोदकाः । हहह ।

 (ख) अविघा एष उन्मत्तको मम मोदकमल्लकं गृहीत्वा हसमानः फेनायमानमालिनवषार्रथ्योदकमिवेत एवाधावति । तिष्ठ तिष्ठोन्मत्तक ! तिष्ठ । अनेन दण्डकाष्ठेन शीर्षं ते भिनद्मि ।


गन्धरायणोऽनुवर्ततां देवः शिवोऽपि साधयत्विति आत्मन आशंसानेन वाक्येन सूचिता ॥

 मोदआ इति । प्रवेक्ष्यत उन्प्रत्तरूपस्य यौगन्धरायणस्य नेपथ्ये वाक्यमिदम् । मोदका इत्यपूपाभिसंबोधनं वयस्यसंबोधनं च । हहह इति हसितध्वन्यनुकारः ॥

 नेपथ्येत्थं वचनमाकर्ण्य वक्तारं दृष्टवत उक्तिः - अविहेति । आवघा हन्त । एष उन्मत्तकः कुत्सित उन्मत्तः । मम, मोदकमल्लकं गृहीत्वा अपूपविशेषमू अपहृत्य । हसभानः व्यसनितया हसन् । ताच्छील्ये चानश् । फेनायमानमलिनवर्षीरथ्थोदकमिव फेनायमानं फेने डिण्डीरमुदूयत् मलिनं पांसुगमयाङ्गरादिसंसर्गमीमसं च यद् वर्षारयोदकं वर्षासु प्रवृत्तं प्रतोलीजलं , तदेव । इत एव इहैव । आधावति व्रतमागच्छति । इति बाह्योऽर्थः । उन्मत्तकः उन्मत्तसदृशो यौगन्धरायणः। ‘इवे प्रतिकृतावि’ति कन् । मम, मोदकमल्लकं गृहीत्वा मम प्रियतरं मन्त्रावसरम् अपरिहृत्य पूर्वोपक्लृप्ते मन्त्रावसरेऽनतीत एवेत्यर्थः । इत्येतावान् पक्षान्तरे विशेषः । इह इसभानत्वफेनायमनत्वयोर्बिम्बप्रतिबिम्बभावेनैकत्वाध्यवसायात् साधारणधर्मत्वं , मलिनत्व-जवगन्तुत्वथोस्त्वनुगाभित्वादिति बद्धव्यम् ।

 चिट्ठेति । उन्मत्तक ! तिष्ठ मा पालयस्व । त्रिरुक्त्तिः संभ्रमात् । अनेन दण्डकाष्ठेन , ते मोदकचरस्य तव । शीर्षे मूर्धानं भिनझि दलयामीति बाह्योऽर्थः । भो यौगन्धरायण ! तिष्ठ निर्णॉतकार्यानुष्ठानाय मा त्वरस्व । अनेन बुद्धिस्थेन ।