पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
द्वितीयोऽङ्कः ।

 देवी–(क) वीणाप्पदाणेण भूओ वि उम्मत्ता वि अ चिट्ठदि ।

 राजा–क्रीडतु क्रीडतु । नैतत् सुळगं श्वशुरकुले । बादरायण ! क्क सा ।

 काञ्चुकीयः -अमात्येन सहोपविष्टा ।

 राजा- अथ वसेष्वधिकृतः ।

 काञ्चुकीयः -आहितविनयत्वात् पादयोरङ्गे तस्य बहुप्रहारत्वाच्च । स्कन्धवाह्येन शयनीयेन मध्यमगहे प्रवेशितः ।

 राजा–हा धिग् , बहुप्रहारः । एष इदानीं निरुपस्कृतस्य तेजसो दोषः । नृशंसः खल्वस्मिन् काल उपेक्षितवान् । बादरायण ! गच्छ । भरतरोहकं ब्रूहि-क्रियतामस्य व्रणप्रतिकर्मेति ।


 (क) वीणाप्रदानेन भूयोऽप्युन्मत्तेव तिष्ठति ।


 वासवदत्ता वीणायाः शिक्षोपक्रमदशायामप्यस्यां तव्द्यसनितामासाद्योन्मत्तेव तिष्ठति; सेदानीं वीणाप्रदानेन प्रोत्सााहिता चेद् बहुतरमुन्मत्ता स्थास्यतीत्याहवीणेत्यदि ॥

 क्रीडत्वित्यादि । आभीक्ष्ण्ये द्विवम् । “ क्क सा ’ इति पाठः। ‘क्क स ’ इत्यपपाठः क्कचित् । सा वासवदत्ता । क्क कुत्र वर्तते ।

 अमायनेत्यादि । ’सहोपविष्टा ' इति पाठः । उपविष्ट इस्यपपाठः ॥

 अथेत्यादि । अथेति प्रश्ने । वत्सेषु अधिकृतः वत्सराजः । कूति संबध्यते । पूर्वप्रक्ष्नानुपदकृतेनानेन प्रश्नेन वासवदत्तावत्सराजयोरेकबुद्ध्युपारूढत्वं द्योत्यते । तेन च वासवदत्तां वत्सराजाय दातुमध्यवसायः प्रद्योतस्य हृदयगुप्तः सूचितो द्रष्टव्यः ॥

  आहितेत्यादि । आहितविनयत्वाद् विनीयतेऽनेनापराधीति विनय इह निगलः , स आहितो निवेशितो यस्य स आहिताविनयः , तत्त्वात् ॥

 हेत्यादि । हा धिगिति बहुप्रहारतानुशोचनम् । निरुपस्कृतस्य अनाङ्कितसंस्कारस्य । स्थानास्थानविवेकविधुरं प्रयुक्तं तेज इत्यभिप्रायेणैवमुक्तम् । अस्मिन् काले उपेक्षितवान् नृशंसः खलु, प्रहारव्रणप्रतिकर्मार्हे समये एतस्योपेक्षां कुर्वन् जनः घातुकः खलु भवति । अनुपेक्षानुरूपमादिशति--बादरायणेत्यदि । व्रणप्रतिकर्म ब्रणचिकित्सा ॥