पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 देवी–(क) बहूणि सम्बन्धप्पओअणागदाणि राअउळाणि सुदाणि । एदिणा ण पेसिदपुरुवो पुरुसो ।

 राजा–देवि ! महासेनशब्दमपि न गणयति , किं सम्बन्धमभिलषति ।

 देवी–(ख) ण गणेदि । किं बालो अपण्डिदो वा ।

 राजा--बाळः, न त्वपण्डितः ।

 देवी- (ग) किण्णुङ्ग एणं उस्सेअअदि ।

 राजा–उत्सेकयत्येनं प्रकाशराजर्षिनामधेयो वेदाक्षरसमवायप्रविष्टो


 (क) बहूनि संम्बन्धप्रयोजनागतानि राजकुलानि श्रुतानि । एतेन न प्रेषितपूर्वः पुरुषः ।

 (ख) न गणयति । किं बालः अपण्डितो वा ।

 (ग) किन्नुखल्वेनमुत्से कयति ।


 बहूणीत्यादि । राजकुळानि राजपुत्रा इत्यथंः । तदुत्पन्नेषु तत्त्वव्यपद्रेशः । एतेन वत्सराजेन । पुरुषः अस्मत्संबन्धघटनार्थो दूतः ॥

 देवीत्यादि । संबन्धं मत्कन्याप्रतिग्रहद्वारकं मदसंबन्धम् ।

 ति । न गणयतीति प्रश्नकाकुः । गणनीयस्यागणनं कश्चिद् बाळभावात् कुर्याद् , अबाल्येऽप्यवैदुष्याद्वा। अतः पृच्छति-किमित्यादि ।

 बाल इत्यादि ।

 किण्णुडु इत्यादि । उत्सेकयति उत्सेको गर्वः तद्वन्तं करोति ।

 उत्सेकयतीत्यादि । प्रकाशराजर्षिनामधेयः प्रकाशानि प्रसिद्धानि राजषीणां नामधेयानि यस्मिन् स: । वेदाक्षरसमवायप्रविष्टः क्रमवान् वर्णसन्निवेशोऽक्षरसमवायः, तच्च वाक्यं , वेदस्य वेदरूपे वा अक्षरसमवये प्रविष्टः प्रतिपाद्यतया प्रवेशं गतः। पञ्चमवेदभूतमहाभारतप्रतिपाद्य इत्यर्थः । यद्वा भरतवंशकूटस्थस्य पुरूरवस उपाख्यानम् ऋग्वेदे (अष्ट०८.अ०५) गीयत इति कृत्वा वेदप्रतिपाद्य इत्यर्थः । प्रविष्ट इस्यस्य स्थाने प्रतिष्ठित इति क्कचित् पाठः । भारतः भरतस्य चक्रवर्तिनः संबन्धी । दायाद्यागतः दायः कुलधनं दायरूपम् आघं भोग्यंवस्तु दायाद्यं दायद्यत्वेन आगतः प्राप्त इति तथा । गान्धर्वो वेदः सङ्गीतविद्या । वथस्सहजं तारुण्यसचिवम् । विस्रम्भयति विश्वस्यति ॥