देवी–(क) किं अमञ्चेण आणीदो ।
राजा-अथाकिम् ।
देवी–(ख) एदण्णिमित्तं कस्स वि ण दिस्सामो वासवदत्तं ।
राजा–युद्धवजितशत्रुः खरवेष मम । बादरायण ! शालङ्कायनः क ।
काञ्चुकीयः-आहितो भद्रद्वारे ।
राजा-गच्छ । भरतरोहकं ब्रूहि-कुमारविधिविशिष्टेन सत्कारेण वत्सराजमग्रतः कृत्वा प्रवेश्यताममात्य इति ।
काञ्चुकीयः - -यदाज्ञापयति महासेनः ।
(क) किममात्येनानीतः ।
(ख) एतन्निमित्तं कस्मा अपि न दिवत्सामो वासवदत्ताम् ।
नापरिमाणस्य वत्सराजग्रहणेन सफल्यादिति भावः । अद्य विमुक्तेत्यतः प्राग् ‘अद्य मेऽप्रतिहतं शासनम्’ इति केचिद् अधिकः पाठः ॥
किभित्यादि। जगद्विख्यातगुणस्य वत्सराजस्य हस्तप्राप्तस्य वस्त्वामिच्छन्त्यस्तद्दिदृक्षया प्रश्नोऽयम् ॥
अथकिमिति ॥
एण्णिमित्तमित्यादि । एतन्निमित्तं वत्सराजेन निभित्तेनेत्यर्थः । कस्मा अपि अन्यस्मै कस्मैचित् वराय। न दित्समः न दातुमिच्छामः । एतेन वत्ससराजाय वासवदत्तादानभिष्टमिति सूचितम् ॥
युद्धेति ।एषः मम युद्धावजितशत्रुः खलु, युद्धे विजित्यहीतः शत्रुः खलु। अथाप्येतस्मै गुणसम्पदपेक्षया कन्या स्वयं प्रदेया वर्तते , किं कुर्म इत्याशयः । अथ स्वकन्यावरत्वेन सङ्कल्पितस्य तस्य ग्रहणनिभितव्यलीकपरिहारादिसदृशं प्रद्योतचेष्टितं बादरायणेत्यादिना प्रकाश्यते ॥
आहित' इति । भद्रद्वारे सर्वतोभद्राख्यत्य सौघस्य द्वारे । आहितः निवेशितः ॥
गच्छेत्यादि । कुमारविधिविशिष्टेन कुमारत्य युवराजत्य यो विधिः उपचारानुष्ठानं तधुक्त्तेन ॥
यदित्यादि ॥