पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
द्वितीयोऽङ्कः ।

 राजा-

 न श्रद्धधाम्युदयनग्रहणं त्वयोक्तं व्यावर्तनं करतलैरिव मन्दरस्य । यस्याहवेषु रिपवः कथयन्ति शौर्यं यौगन्धरायणमतानि च नः स्वनन्ति ॥

 काञ्चुकीयः---प्रसीदतु महासेनः । वृद्धोस्मि ब्राह्मणः खल्वहम् । न महासेनसमीपेऽनृतमभिहितपूर्वम् ।

 राजा–आ अस्त्येतत् । अथ कः प्रियदूतः शालङ्कायनेन प्रेषितः ।

 काञ्चुकीयः--न पुरुषः । जंवातिशययुक्तेन खररथेन वरसराजमग्रतः कृवा स्वयमेवामात्यः प्राप्तः ।

 राज–एवं प्राप्तः । हन्त भोः ! अद्य विमुक्तसन्नाहा सुखं विश्राम्यवक्षौहिणी । अद्यप्रभृति प्रच्छन्नकृतदतसम्प्रेषणा अशङ्किताः स्थास्यन्ति राजनः। एष समास —अद्यास्मि महासेनः ।


 नेति । त्वयोक्तम्, उदयनग्रहणं, करतलैः, मग्दरस्य व्यावर्तनमिव मन्दरगिरोर्विभ्रमणमिव । न श्रद्दधामिं न विश्वसिमि । यस्य उदयनस्य । आहवेषु युद्धेषु । रिपवः, शौर्थं शूरकर्म । अर्थाद् उदयनस्य संबन्धि । नः अस्माकम् । कथयन्ति वर्णयन्ति । यौगन्धरायणमतानि च यौगन्धरायणमन्त्रणफळांनि च । स्वनान्ति संशब्दयन्ति । स्वनिरिहान्तर्भावितण्यर्थः । अथवा यौगधरायणमतानि कर्तृणि, स्वनन्ति ध्वनन्ति व्यक्त्तीभवन्तीत्यर्थः । स्वतो महाशूरस्य मन्त्रियौगन्धरायणसहायस्य च सतस्तस्य ग्रहणं सर्वथैवासम्भावितमित्यभिप्र।यः ॥ ९ ॥

 प्रसीदत्वित्यादि ।

 आ इत्यादि । आशब्दः स्मरणे । एतद अस्ति, त्वयानृतं नोक्तपूर्वमित्येतत् तथ्यमित्यर्थः ।

 न पुरुष इत्यादि । पुरुषो न, प्रेषित इत्यनुकृष्यते । अग्रतः पुरः ॥

 एवमित्यादि । इन्त भोः इति सन्तोषे । अद्य, विमुक्तसहा परित्यक्तकवचा । विश्रम्यतु जेतव्यशेषस्य वत्सराजस्य जितत्वात् अमपरिहारमुखमनुभवतु। विश्रामयस्वक्षौहिणीमिति विमुक्तसन्नाह इति च क्कचित् पाठः । अत्रामात्यः प्रयोजककर्ता । प्रच्छन्नकृतदूतसंप्रेषणाः वत्सराजशङ्कया मां प्रति अप्रकटकृतदूतप्रेषणाः । एष समासः अयं सन्तोषवचनसंक्षेपः । तस्यैवाकारः-अद्यास्मीत्यादि । महासेन इति प्रद्योतस्य बलपरिमाणनिर्वृत्तं नामधेयम् । तदधैव सिद्धं, महतः से -