पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 राजा(सहर्षम् )किमाह भवान् ।

 काञ्चुकीयः-तत्रभवतामात्येन शाळङ्कायनेन गृहीतो वत्सराजः ।

 राजा-उदयनः ।

 काञ्चुकीयः--अथकम् ।

 राजा --शतानीकस्य पुत्रः ।

 काञ्चुकीयः--दृढम् ।

 राजा-सहस्रनीकस्य नप्ता ।

 काञ्चुकीयः--स एव।

 राजा--कौशाम्बीशः।

 काञ्चुकीयः सुव्यक्तम् ।

 राजा “गान्धर्ववित्तकः ।

 काञ्चुकीयः--एवं ब्रुवन्ति ।

 राजा-वत्सराजो ननु ।

 काञ्चुकीयः -अथाकिं , वत्सराजः।

 राजा -अथ किमुपरतो यौगन्धरायणः।

 कञ्चुकीयः-न खलु , कौशाम्ब्य किल ।

 राजा--यद्येवं , न गृहीतो वत्सराजः ।

 काञ्चुकीयः-श्रद्धत्तां महासेनः।


 उपजातहर्षोऽप्यसंभावनया पृच्छति-किमिस्यादि ॥

 तत्रभवतेश्यादयस्रयोदश संवादा असंभावनानिमित्कंधुनःपुनःप्रक्ष्नतदुत्तररूपाः । गान्धर्मवित्तकः गीतकळायां लोकविदितः ॥

 जीवति यौगन्धरायणे वत्सराजग्रहणमसम्भवीति बुद्धया पुनः पृच्छतिअथेत्यादि । उपरतः प्रमीतः ।

 न खल्विति । न खलु नैवोपरतः । कौशाम्ब्य वत्सराजधान्यां । वर्तत इति शेषः । किळेति वार्तायाम् ॥

 यद्येवमित्यादिना ग्रहणाविस्रम्भं पुनशविष्कृतमपनेतुमाह--क्षङ्गतामित्यादि । श्रद्धत्तां विश्वसितु ॥