काञ्चुकीयः-निवेशितोऽनुरूपतश्च सकृतः ।
राजा -न्याय्यं कृतं राजवंशगुणाभिलाषिणा । समागतान युक्तः पूजया प्रतिग्रहः। अथ सर्वोऽपि कन्याप्रदानं प्रति पृष्टश्चेत् परच्छन्देन तिष्ठति । (काञ्चुकीयमवलोक्य) बादरायण ! वक्तुकाममिव त्वां लक्षये ।
काञ्चुकीयः --न खलु किञ्चित् । कन्याप्रदानं प्रति समुत्पन्नोऽभिमर्शः ।
राजा--अलमलं परिहृत्य । सर्वसाधारणो ह्येष विधिः । अभिधीयताम् ।
काञ्चुकीयः- -महासेन ! एषा मे विवक्ष – एवं नाभाहन्यहनि
निवेशित इत्यादि । अनुरूपतः आनुरूप्येणत्यर्थः ॥
न्याय्यामित्यादि । न्याय्यं न्यायादत्नपेतम् । राजवंश्यगुणाभिलाषिणा राजवंश्यस्य राजवंशभवस्य जैवन्तिप्रेषयितुः काशिराजस्य गुणाभिलाषिणा गुणपक्षपा तिना । अर्थाद् भवता । समागतानामित्यस्य स्थाने ‘समासन्नप्रीतिकारणागतानामि’ति क्कचित् पठ्यते । समासन्ना अचिरभाविनी या प्रीतिः वासवदत्तोद्वाहामोदः, तेन करणेन आगतानामिति तदर्थः । पूजया प्रतिग्रहः बहुमानेन प्रत्येषणम् । पूजापरिग्रह इति पाठेऽप्ययमेवार्थः । पृष्टश्चेत् ‘प्रेषितदूतेषु राजसु कतमस्मै कन्या देयेति मयानुयुक्तश्चेत् । सर्वोऽपि अमात्यादीः। परच्छन्देन तिष्ठति , अन्याभिप्रायप्रतीक्षया अर्थाद् मदभिप्रायप्रतीक्षया तिष्ठति, न तु स्वाभिप्रायं कश्चिद् वक्तीत्यभिप्रायः । वक्तुकामामिव विवक्षुमिव । लक्षये आकारेणानुमिनोमि । ‘वक्तु काम इवेत्येवादर्शेषु पठ्यते । तत् तु लेखकप्रमादायातम् ॥
न खल्वित्यादि । न खलु किञ्चित् , वक्ष्यमाणादन्यत् किमपि न। आभिमर्शः समुत्पन्नः विचारः समुत्पन्नः । तेन मे काचिद् विवक्षेत्याशयः । विमर्श इति क्वचित् पाठः ॥
अलमित्यादि । अलमलं परिह्स्य विवक्षितं मा परिहर । ‘अलंखल्वोरि’ति क्त्वप्रत्ययः । एष विधिः कन्याप्रदानविधिः। सर्वसाधारणो हि सर्वेषां समान एव। अतत्त्वमपि यथानुभवमत्रभिप्रायमाविष्कर्ते प्रभुरेवेत्यभिप्रायः ।
महासेनेत्यादि । एषा विवशा वक्तुमिच्छा । एष विवक्षाविषय इत्यर्थः ॥