पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
प्रथमोऽङ्कः ।

 यौगन्धरायणः- 'किं किम् ।

 प्रतीहारी- आह ।

 यौगन्धरायणः- किमिति ।

 प्रतीहारी - (क) एवंविहस्स सुहिज्जणेण परिगहदस्स वच्छगअस्स अअं वुत्तन्तो । किं सक्कं कतुं अन्तरेण विहाणं । ता सम्माणिअ सुहिज्जणं समस्थिअदु ! जो खु दाणि सङ्कटेसु वा ण विसीददि, विसमगदो वा ण पय्यवचिट्ठदि , वञ्चिदो वा ण णिव्वेदं गच्छदि , पडिघादेसु वा पाणा ण समुज्झदि, सो खु बुद्धिमन्तो पुच्छिज्जइ पढमं एव्व मे वच्छस्स वअस्सो पञ्चा अमञ्चो आणेदु मे पुत्तअं पुत्तओ त्ति ।


 (क) एवंविधस्य सुहृज्जनेन परिगृहीतस्य वत्सराजस्यायं वृत्तान्तः । किं शक्यं कर्तुमन्तरेण विधानम् । तत् सम्मान्य सुहृज्जनं समर्थ्यताम् । यः खल्विदानीं सङ्कटेषु वा न विषीदति, विषमगतो वा न पर्यवतिष्ठते, वञ्चितो वा न निर्वेदं गच्छति, प्रतिघातेषु वा प्राणान् न समुज्झति, स खलु बुद्धिमान् पृच्छयते प्रथम मेव मे वत्सस्य वयस्यः पश्वादमात्य आनयतु मे पुत्रकं पुत्रक इति ।


 सावशेष एव वाक्ये शङ्कोदयात् पृञ्छति--किमिति । पुत्रविपत्तिश्रवणेन भर्तुमाता किं मूर्च्छिता मृता वान्यथाभूता वेति प्रश्नशयः। संभ्रमेण द्धिरुक्तिः ॥

 अहेत्युक्त्या स्वास्थ्येऽवगते शान्तसंभ्रमः पृच्छति--किमितीति ॥

 एवंविहस्सेत्यादि । एवंविधस्येति स्वतो वीरत्वं , सुहृज्जनेन परिगृहीतस्येति सत्सहायसम्पन्नत्वं च प्रकृतवृतान्तसंभवप्रतिबन्धकमुक्तम् । विधानमन्तरेण वैरकर्म विनावैरनिर्यातनं विनेत्यर्थेः । ’विधानं हस्तिकबले प्रेरणेऽभ्यर्चने धने । वेदने चाप्युपाये च प्रकारे वैरकर्मणि॥ इति यादवः सम्मान्य पूजयित्वा । समर्थतां कर्तव्यं संप्रधार्यताम् । अर्थात् सुहृज्जनेन सह । सङ्कटेषु कष्टावस्थासु। विषस गतो वा न पर्यवतिष्ठते , दुःखस्थानगतो वा न स्वस्थास्तिष्ठति, किन्तु विषमोत्तरणायैव यतत इत्पर्थः। निर्वेदम् अनुत्साहम् । प्रतिघातेषु वा प्राणान् न समुज्झति ‘विघातेषु वा जायमानेषु प्रयत्नशक्तीर्न स्यजति । स खलु बुद्धिमान् अर्थाद् भवान् । पृञ्छयते ज्ञीप्स्यते ज्ञापयितुमिष्यते । अर्थाद् वक्ष्यमाणमर्थम् । ‘प्रच्छ ज्ञीघ्शायामि’ति धातुः । यद्यपि