पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
प्रतिज्ञायौगन्धरायणे सव्याख्याने

(नेपथ्ये)

(क) हा हा भट्टा !

 यगन्धरायणः

एष शोकप्रतीकारो यथाशक्ति निवेद्यते ।
एतत् स्त्रीभिरसामर्थ्थ मन्त्रिणामनुर्ण्यते ॥ १५ ॥

(प्रविश्य)

 प्रतीहारी -(ख) अय्य ! भट्टिमादा ।


 (क) हा हा भर्तः !

 (ख) आर्य ! भर्तृमाता ।


मां, पार्श्वतः स्वपार्क्ष्वें । द्रक्ष्यति । एतावता चैतदुक्तं भवति--अहं वेषान्तरप्रच्छन्नरूपो भूत्वा रिपुनगरादौ स्वाभिना समागन्तुं, प्राणपरित्यागेनापि स्वमनमनुवर्तितुं, कपटोपायप्रयोगेण शत्रहस्तात् स्वामिनं मोचयितुं च बद्धपरिकरोऽस्मीति । इह ‘ वञ्चयित्वाघिगतराज्य ’ इति क्त्वाप्रत्ययोऽधिगमक्रियापेक्षं वञ्चनाक्रियायाः पूर्वकालस्वमाश्रिस्य कृतः । यद्यपि वञ्चनकर्तृत्वं यौगन्धरायणस्य, न त्वधिगमकर्तुः स्वामिनः; तथापि यौगन्धरायणेन स्वनिष्ठमेव तत् स्वामिन्यारोपितमौद्धत्यपरिहारायेति कृत्वा क्रिययोः समानकर्तृकत्वोपपत्तिः ॥ १४ ॥

 हाहेति । मर्तः ! इदं श्रुतभर्तृवृतान्तस्य स्त्रीजनस्य भर्तृविषयं शोकाभिसंबोधनम् ।

 एष इति । स्त्रीभिः एषः ‘हा हा भर्तः’ इति परिदेवितरूपः । यथाशक्ति शोकप्रतीकारःस्वशक्तिमनतिक्रम्य शोकप्रतिक्रिया । निवेद्यते प्रकाश्यते । इयमेव हि शोकस्य प्रतिक्रिया स्त्रीभिः कर्तु शक्या, यद् बन्धुजनं विपन्नं संस्मरन्त्य उच्चैर्विलपन्ति । सेयं स्त्रीभिः सद्य एवारब्धा, मया तु शक्या न कापि प्रतिक्रियारब्धेति तदारभ्भं प्रत्यौत्सुक्यं वक्तुरिह द्योत्यते । परिदेवितमिदं स्त्रीणामात्मीयः शोकप्रतीकारो न केवलं, किन्तु मन्त्र्ययशःप्रसरहेतुरपीस्याह—एतत् हाहेति परिदेवितम् । स्त्रीभिः, मन्त्रिणाम्, असामर्म्यम् अनुवर्यते, अमात्यानाम् अनागतविधानाशक्त्तत्वम् अनुकीर्त्यते । स्वामिविपत्प्रकाशनद्वारेण मन्त्र्यसामर्थ्यप्रकाशके हाहेति परिदेविते स्त्रीकर्तृके मन्त्र्यसामर्थानुवर्णनतादात्म्योपचारः ॥ १५ ॥

 अय्येत्यादि ॥